________________
२९४
[ पार्धाभ्युदये तत्रैवाऽऽस्ते तव च दयिता लप्स्यते लब्धजन्मा
तन्वी श्यामा शिखरिदशना पक्कबिम्बाधरोष्ठी ॥ १८ ॥
अन्वयः---तत् मे वाक्यात् अपगतभयः त्वं आत्मनीनं व्यवस्य तीर्थे स्थित ध्वाक्षं अपनुदन् मदुक्ते स्थिरात्मा स्याः। तन्वी श्यामा शिखरिदशना पक्कबिम्बाधरोष्ठी तव दयिता तत्र एव आस्ते (त्वया तत्र एव सा) लप्स्यते च ।
तदित्यादि । तत् तस्मात् कारणात् मे मम वाक्यात वचनात् हेतुभूतात् अपगतभयः वीतभीतिः। अपगतं अपक्रान्तं भयं यस्य सः। त्वं आत्मनीनं व्यवस्य आत्महितङ्करं निश्चित्य । आत्मने हितं आत्मनीनं । 'भोगद्यात्मन्भ्यां खः' इति खः । तीर्थे पुण्यक्षेत्रवत्पवित्रे मनसि । तीर्थ पुण्यक्षेत्रं । तीर्थमिव तीर्थम् । 'तीर्थ शास्त्रावतारयोः। पुष्यक्षेत्रमहापात्रोपायोपाध्यायदर्शने' इति विश्वलोचने । स्थितं स्थितिमन्तं । विद्यमानमित्यर्थः । ध्वाक्षं काकतुल्यं संशयं । काकस्य संशयात्मत्वासंशयस्यात्र ध्वाङ्गत्वेनाभिधान । संशयमित्यर्थः। अपनुदन् परिहरन् मदुक्ते मदीयवचने स्थिरात्मा व्यपगतसंशयमनस्कः । स्थिरः विपरीतोभयकोट्योरदोलायमानः आत्मा मनः यस्य सः। 'आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु' इति विश्वलोचने । स्याः भवेः । मद्वचने सन्देहं मा कार्षीरिति भावः । तन्वी कोमलाङ्गी कृशाङ्गी वा। 'गुणोक्तेरुतोऽखरुस्फोडः' इत्युकारान्तात्तनुशब्दाकी गुणवचनत्वात् तस्य । श्यामा अप्रसूता स्त्री। अपरित्यक्तकन्याभावेत्यर्थः । 'अप्रसूताङ्गनायां च श्यामा सोमलतौषधे' इति विश्वलोचने । यद्वा यौवनमध्यस्थेत्यर्थः । 'श्यामा यौवनमध्यस्था' इत्युत्पलमालायाम् । शिखरिदशना। शिखराणि कोट्यः एषां सन्तीति शिखरिणः । 'अतोऽ नेकाचः' इति इन् । शिखरिणः कोटिमन्तः दशना दन्ताः यस्याः सा शिखरिदशना । 'शिखरं शैलवृक्षाग्रे कक्षापुलककोटिषु । पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च' इति विश्वलोचने । एतेनास्याः सौभाग्यं स्वपत्युरायुष्करत्वं विभाव्यते । उक्तं च सामुद्रिके -'स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् ॥ ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः। दन्ताः शिखरिणो यस्याः दीर्घ जीवति तत्प्रियः ॥' इति । पक्कबिम्बाधरौष्ठी परिणतविम्बिकाफलतुख्याधरौष्ठी। पक्कं परिणतं च तत् बिम्बं बिम्बिकाफलं च पक्वबिम्बं । पक्कं बिम्बिकाफलं रक्तवर्ग भवति । तदिव अधरोष्ठः यस्याः सा पक्कबिम्बाधरौष्ठी। 'ओत्वोष्ठयोर्वा से पररूपम् ' इति पररूपस्य वैकल्पिकत्वात्प्रकृतः 'पक्कबिम्बाधरौष्ठी' इति पाठोऽपि साधीयान् । 'नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात्' इति डी। तव भवतः दयिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org