________________
तृतीयः सर्गः ]
२९५
प्रिया तव एव अलकापुर्यामेव आस्ते विद्यते । त्वया तत्रैव सा लप्स्यते च प्राप्स्यते एव ।
You, therefore, with your fear dispelled (or apprehension subsided) by my words, having decided what is benificial to yourself, scaring away the crow settling upon a holy bathing place (i. e. dispelling doubt from your holy and pure mind ), should have your mind firmly fixed upon my words. Your beloved ( i. e. Vasundhara ), slenderly built, youthful, having pointed teeth, possessing lower lips red like ripe Bimba fruit, is in that very city; you will find her there.
यस्या हेतोस्तव च मम च प्राग्भवेऽभूद्विरोधः तत्रोत्पन्ना निवसति सती साऽधुना किन्नराणाम् । दृष्टा सौम्यं सजलनयना त्वां स्मरन्ती स्मराती
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥ १९ ॥
अन्ययः प्राग्भवे यस्याः हेतोः तव च मम च विरोधः अभूत् सा अधुना किन्नराणां सती उत्पन्ना तत्र निवसति । मध्ये क्षामा, चकितहरिणीप्रेक्षणा, निम्ननाभिः, स्मरात सौम्यं त्वां स्मरन्ती सा सजलनयना दृष्टा ।
--
यस्या इत्यादि । प्राग्भवे प्राक्तनजन्मनि यस्याः वसुन्धराचर्याः हेतोः कारणात् तव च मम च आवयोः विरोधः शास्त्रवं अभूत् भवति स्म सा वसुन्धराचरी अधुना इदानीन्तनका किन्नराणां सती उत्पन्ना किन्नरदेवजातौ लब्धप्रादुर्भूतिः तत्र अलकानगर्यो निवसति । मध्ये अवलन | कंटीप्रदेशे इत्यर्थः । क्षामा क्षीणा । कृत्री1 भूता इत्यर्थः । ' क्षो मः ' इति क्षायतेस्ततकारस्य मादेशः । मध्येक्षामा ' इति पाठे तु 'घे कति बहुलम् ' इति ईपोऽनुप् चकितहरिणीप्रेक्षणा भीतिप्रकम्पितमृगनयना । चकिता भयप्रकम्पिता चासौ हरिणी मृगी च चकितहरिणी । तस्याः प्रेक्षणे इव नयने यस्याः सा । तन्वीत्यादिविशेषणैरस्याः पद्मिनीत्वं संसूच्यते । तदुक्तं रतिमञ्जर्यो - ' भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा, अविरलकुचयुग्मा चारुकेशी कृशाङ्गी । मृदुवचनसुशीला गीतवाद्यानुरक्ता, सकलतनु सुवेशा पद्मिनी पद्मगन्धा' इति । तथैव चोक्तं रतिरहस्ये 'चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे ' इति । निम्ननाभिः गम्भीरनाभिः । अनेन नाभिगाम्भीयन्नारीणां मदनोद्रेकः संसूच्यते । स्मरात कामपीडिता सौम्यं मनोहराकारं त्वां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org