SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] you will repose much more confidence in me, not known to you, and that is a pleasure-hill on its bank, with its peak built with beautiful sapphires, worthy of being looked at owing to the golden plantain trees forming its hedge. रत्याधारो रतिकर इवोत्तुङ्गमूर्तिर्विनील: __ शैलो मूले कनकपरिधिर्मे मनोऽद्याऽनुशासत् । मद्देहिन्या प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ १७॥ अन्वयः - सखे ! उपान्तस्फुरिततडितं त्वां प्रेक्ष्य (यः ) रत्याधारः रतिकरः इव उत्तुङ्गमूर्तिः, विनीलः, मूले कनकपरिधिः, मे मनः अद्य अनुशासत् तं एव मद्हिन्याः प्रियः इति कातरेण चेतसा स्मरामि । रत्याधार इत्यादि । सखे भो मित्र ! उपान्तस्फुरिततडितं प्रान्तप्रदेशप्रकटितक्षणाचें । उपान्ते प्रान्तप्रदेशे स्फुरिता चकासिता तडित् सौदामनी यस्य सः । तम् । त्वां भवन्तं प्रेक्ष्य विलोक्य यः रत्याधारः रतिक्रीडास्थानं । रतिकरः इव रतिकरधराघरः इव उत्तुङ्गमूर्तिः अत्युन्नतकायः । उत्तुङ्गा अत्युन्नता मूर्तिः शरीरं यस्य सः। 'मूर्तिः कायेऽपि काठिन्ये मृत्युयाचितयोर्मतम्' इति विश्वलोचने । विनीलः विशेषेण नीलवर्णः। मुले पर्वतोपासन्नदेशे । उपत्यकायामित्यर्थः । कनकपरिधिः किंशुकचंपकनागकेसरादिवृक्षपरिवेष्टितः सौवर्णपरिधिर्वा । मे मनः मम मनः अद्य अनुशासत् आकर्षन् । तं एव क्रीडाशैलं एव मद्देहिन्याः अस्मदीयगृहिण्याः प्रियः इति अभिमतोऽस्तीति हेतोः कातरेण प्रकम्पितेन चेतसा मनसा स्मरामि स्मृतिविषयतां नयामि । Oh friend I on seeing you, with lightning emitting sudden transitory blaze in your sides, I remember that very pleasure-hill, the abode of sexual enjoyment, possessing a form lofty like that of the Ratikara mountain, dark-blue, having a golden enclosure at its foot, dominating over my mind today, with a tremulous heart, as it was a favourite of my beloved. तन्मे वाक्यादपगतभयस्त्वं व्यवस्याऽऽत्मनीनं तीर्थे ध्वाक्ष स्थितमपनुदन्स्याः स्थिरात्मा मदुक्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy