SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये Take the beautiful tank, neutralizing (nullifying) heat with the pollens of lotuses, having water spreading wide, possessing ample waves, the swans having fixed their residence in the waters of which with their distress dispelled do not anxiously call to their mind the Manasa lake (though) near at hand even on seeing you, to be the divulgence of my Karman (bound with my soul through good acts done by me in my former births.) २९२ अन्यच्चास्मिन्नुपवनधने मद्गृहोपान्तदेशे स्यादाख्येयं मयकि सुतरां प्रत्ययो येन ते स्यात् । तस्यास्तीरे विहितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः ठः कनककदलीवेष्टनप्रेक्षणीयः ॥ १६ ॥ अन्वयः - अस्मिन् उपवनघने मद्गृहोपान्तदेशे अन्यत् च आख्येयं स्यात् येन मयकि ते सुतरां प्रत्ययः स्यात् । तस्याः तीरे पेशलैः इन्द्रनीलैः विहितशिखरः कनक कदलीवेष्टनप्रेक्षाणयः क्रीडाशैलः ( अस्ति ) । 6 आरामः C अन्यदित्यादि । अस्मिन् एतस्मिन् उपवनघने कृत्रिमैः वृक्षसमृहैः निरन्तरे । उपवनं कृत्रिमः वृक्षसमूहः । तैः घनः निरन्तरः उपवनधनः । तस्मिन् । स्यादुपवनं कृत्रिमं वनमेव तत्' इत्यमरः । करणेन निर्वृत्तः कृत्रिमः वृक्षसमूहः । समीप वनस्य उपवनम्, तुल्यत्वेन नैक्ट्यात् ' इति क्षीरस्वामी । ' काठिन्ये चाऽथ कठिने सान्द्रेऽपि च घनस्त्रिषु ' इति विश्वलोचने । मद्गृहोपान्तदेशे आस्माकीनगृहसमीपप्रदेशे । मम गृहं मद्गृहं । तस्य उपान्तदेशः । तस्मिन् । अन्यत् व अपरं अपि आख्येयं वर्णनार्ह स्यात् अस्ति येन वर्णनार्हेण मयाक अज्ञाते मयि ते तव सुतर अत्यर्थं प्रत्ययः विस्रम्भः स्यात् भवेत् । तस्याः दीर्घिकायाः तीरे तीरप्रदेशे पेशलैः मनोहरैः । सौन्दर्ययुक्तैरित्यर्थः । ' पेशलो रुचिरे दक्षे चारुशीलेऽपि वाच्यवत् ' इति विश्वलोचने। इन्द्रनीलैः इन्द्रनीलमणिविशेषैः विहितशिखरः रचितसानुः । विहितं रचितं शिखरं शृङ्गं यस्य सः । कनककदलीवेष्टनप्रेक्षणीयः सुवर्णसवर्णरम्भारब्धावरणदर्शनीयः । कनककदलीनां वेष्टनेनावरणेन प्रेक्षणीयः दर्शनीयः । क्रीडाशैलः क्रीडाप्रयोजनः पर्वतः । अस्तीति शेषः । Jain Education International In the adjoining region, crowded with groves of trees, of my mansion, there is something else worthy of being described, whereby For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy