________________
तृतीयः सर्गः
२९१
सूत्रितं । हैमैः सुवर्णसवर्णैः । हेम्नः विकारः अवयवो वा हैमं । हैममिव हैमं । 'हमादिभ्योऽञ्' इत्यञ् । विकचकमलैः विकसितसरसीरुहैः । स्फीता व्याप्ता मदीया माम. कीना । 'दोश्छः' इति छः । वापी दीर्घिका । अस्तीति शेषः ।
I am neither a demon nor verily a god; neither a Kinnara nor a Pannaga. I, this person, am the Guhyaka, a resident of the city of Kubera. In it (i. e. in the garden), there is a tank, having flight of steps built of emerald slabs, abounding in full-blown lotuses resembling those made of gold and having long stocks resembling those made of Vaidurya ( gems ), owned by me.
तां जानीयाः कमलरजसा ध्वस्ततापां ततापां
मत्पुण्यानां सृतिमिव सतीं वापिकां विस्तृतोर्मिम् । तस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ १५ ॥
अन्वयः - यस्याः तोये कृतवसतयः व्यपगतशुचः हंसाः त्वां प्रेक्ष्य अपि सन्निकृष्टं मानसं न अध्यास्यन्ति, तां कमलरजसा ध्वस्ततापां ततापां विस्तृतोमि सतीं वापिकां मत्पुण्यानां सृर्ति इव जानीयाः ।
८
तामित्यादि । यस्याः दीर्घिकायाः तोये सलिले कृतवसतयः विहिताधिवासाः । कृता विहिता वसतिः अधिवासः यैः ते । व्यपगतशुचः वीतशोकाः । व्यपगताः विगलिताः शुच शोकाः व्यपगतशुचः । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । हंसाः मरालाः त्वां भवन्तं प्रेक्ष्य अपि विलोक्यापि सन्निकृष्टं समीपदेशस्थितं । अध्वश्रममन्तरेण प्राप्यमित्यर्थः । मानसं मानसाभिधानं सरः न अध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति । " आध्यानमुत्कण्ठापूर्वकं स्मरणम्' इति काशिकायाम् ” इति मलिनाथेोक्तम् । तां वापिकां कमलरजसा सरोजरजसा ध्वस्ततापां नष्टग्रीष्मातपां । ध्वस्तः नष्टः तापः ग्रीष्मातपः यस्याः सा । ताम् । ततापां विस्तृतसलिलां । तताः विस्तारं प्राप्ताः आपः यस्याः सा ताम् । विस्तृतो मैं विशालकल्लोलमालाकुलां । विस्तृताः ऊर्मयः यस्याः सा । ताम् । सतीं शोभनां वापिकां दीर्घिकां मत्पुण्यानां मम सुकृतानां सृतिः इव सरणिमिव । ' सृति स्त्री गमने मार्गे कुपूर्वा निकृतौ सृतिः इति विश्वलोचने । जानीयाः जानीहि ।
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org