________________
२९०
[पार्धाभ्युदये
इत्यमरः । दीर्घवैदूर्यनालैः । वैदूर्याणि च तानि नालानि च वैदूर्यनालानि । दीर्घाणि वैदूर्यनालानि येषां तानि दीर्घवैदूर्यनालानि । तैः । विदूरात् पर्वतात् प्रभवतीति वैदूर्यो मणिः। 'वैदूर्यः' इति पर्वतवाचिनः विदूरशब्दाव्यः निपातितः । 'वैडूर्यः' इति पाठः भ्रान्तः। " ततः प्रभवतीति अनुवर्तते । विदूरशब्दाच्यो भवति । अणोपवादः । विद्रात् प्रभवति वैदूर्यो मणिः । यदि प्रथमं भवति प्रभवतीत्युच्यते वालवायागिरेरसो प्रभवति, न विरानगरात् । कथं ततस्त्योपत्तिः ? एवं तर्हि -'वालयायो विदूरं च प्रकृत्यन्तरमेव वा । नैवं तत्रेति चेद् ब्रूयात् जित्वरीवदुपाचरेत् ।' वालवायस्त्यं लभते विदूरमादेशं च । यथा शिवादिषु विश्रवःशब्दो विश्रवणरवणादेशौ अणं च लभते । प्रकृत्यन्तरमेव वा वायवायस्य विदूरशब्दः। अव्यविकन्यायेन विदूरादेव त्यः । नैवं तत्रेति चेद् ब्रूयात् जित्वरीवदुपाचरेत् । यथा वाणिजाः वाराणसी जित्वरीति मङ्गलार्थमुपाचरन्ति एवं वालवायोऽपि उपचाराद्विदूरशब्देनोक्तः । अथवा विदूरादेव मणित्वेन प्रभवति ।" इत्युक्तं जैनेन्द्रमहावृत्तौ । तत्वबोधिनीकारैरपि “वैदूर्य इति दन्त्यमध्योऽयं शाद्वलवत्, न तु नलवन्मूर्धन्यमध्यः । नन्वत्रार्थासङ्गतिः । बालवायपर्वतादसौ प्रभवति, विदूरनगरे तु संस्क्रियते । सत्यम् । अत एव समाहितं भाष्ये । 'बालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति चेद्व्याजित्वरीवदुपाचरेत्' इति । अस्याऽर्थः । बालवायशब्दः प्रत्ययं लभते विदूर-(रा)-देशं च, सूत्रे पठितेनादेशानुरूपः स्थानी बालवायशब्दः आक्षिप्यते । यथा शिवादिषु पठिताभ्यां विश्रवणरवणादेशाभ्यां अनुरूपः स्थानी विश्ववस्शब्दः आक्षिप्यते, यथा वा 'पद्दन्न-' इत्यादौ पदाद्यादेशानुरूपः स्थानी पाददन्तादिराक्षिप्यते तद्वत् ॥ प्रकृत्यन्तरमेवेति । विदूरशब्दो नगरस्येव पर्वतस्याऽपि वाचकोऽस्तीत्यर्थः । एवं चाऽस्मिन्पक्षे 'बालवायात्प्रभवति' इति विग्रहे विदूरशब्दप्रत्ययः इति व्याख्यानक्लेशो नेति भावः। न वा इति । वैशब्दोऽक्षमां द्योतयति । तत्र पर्वते विदूरशब्दोऽप्रसिद्धः इति चेद्व्यजित्वरीवयवहरेत् । नियतपुरुषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसी जित्वरीति व्यवहरन्ति एवं वैयाकरणा एवाद्रिं विदर इति" इति उक्तं । उक्तं चान्येनाऽपि केनचित् “ विडूरग्रामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथमं प्रभवति । बालवायात्तु पर्वतादसौ प्रभवन्न मणिः, किन्तु पाषाणः । यदा तु जायमानतार्थः प्रभवशब्दः तदा बालवायशब्दस्य व्यः। तत्सन्नियोगे विडूरा देशश्चीनपात्यते। वालवायपर्याय एव विडूरशब्दः । प्रतिनियतविषयाश्च रूढयः इति वैयाकरणानामेव प्रसिद्धिः" इति । वैदूर्यस्य विकारः वैदूर्य । वैदूर्य इव वैदूर्य । वैदूर्यविकारोऽत्र वैदूर्यमणिरचिंताः अलङ्काराः । वैदूर्यमणिजनितालङ्करणानीव नालानि वैदूर्यनालानि । अत्र वैदूर्यनालयोः सारूप्यं सावर्णादित्यवसेयम् । शब्दार्णवशाकटायनयोः 'वैडूर्यः' इत्येव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org