SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] २८९ 'कृष्णसार रुरुन्यङ्कुर ङ्कुश म्बररौहिषाः । गोकर्ण पृषतैणयेरे। हिताश्चमरो मृगाः' इत्यमरः । ' पातेः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ' इत्यमरः । सलिलधरणस्य उपान्तः सलिलधरणोपान्तः । तत्र पुस्तः एणशावः यस्य सः सलिलधरणोपान्तपुस्तैणशावः । एणस्य शावः पृथुकः एणशावः । पुस्तश्चासौ एणशावश्च पुस्तैणशावः । आलोवालोपान्तप्रदेशस्थितलेप्यकर्मनिर्मितमृग शिशुरित्यर्थः । मे मम कान्तया वल्लभया वर्द्धितः वृद्धिं नीतः । जलखलविगलितगोमयादिप्रदानेन वृद्धिं नीतः इत्यर्थः । कृतकतनयः पुत्रीकृतः हस्तप्राप्यस्तबकनमितः हस्तापनेयगुच्छभारनम्रीकृतः । हस्तेन प्राप्याः अपचेयाः हस्तप्राप्याः । ते च ते स्तत्रकाः गुच्छाश्च । तैः नमितः नम्रीकृतः । बालमन्दावृक्षः तरुणः कल्पतरुः । अस्तीति शेषः । In the garden of which there stands a young Mandara tree, giving out fragrance of flowers, having delicate foliage, possessing charm owing to the songs sung by bees, having pleasant shadow, possessing in the vicinity of its basin a mould of a fawn made by plastering, reared up by my wife as an adopted son, bent down owing to the clusters (of flowers) worthy of being plucked by hand (i. e. within reach of hand). नाsहं दैत्यो न खलु दिविजः किन्नरः पन्नगो वा वास्तव्योऽहं धनदनगरे गुह्यकोऽयं मदीया | वापी चाऽस्मिन्मरकतशिलाबद्ध सोपानमार्गा मैः स्फीता विकचकमले दीर्घ वैदूर्यनालैः ॥ १४ ॥ अन्वयः - अहं न दैत्यः, न खलु दिविजः, किन्नरः पन्नगः वा; अयं अहं धनदनगरे वास्तव्यः गुह्यकः । अस्मिन् च मरकतशिलाबद्धसोपानमार्गा, दीर्घवैदूर्यनालैः हैमैः विकचकमलैः स्फीता मदीया वापी [ अस्ति ] | नेत्यादि । अहं न दैत्यः असुरः । न खलु नैव दिविजः देवः । किन्नरः देवयोनिविशेषः पन्नगः वा नागदेवः वा । नास्मीति शेषः । अयं अहं एषोऽहं धनदनगरे 1 कुबेरराजधान्यां अलकायां वास्तव्यः निवसन् । कृतनिवासः इत्यर्थः । ' व्यानड्बहुलम् ' इति कर्तरि व्यः । गुह्यकः यक्षः । अस्मिन् च अस्मदीयगृहोद्याने च मरकतशिलाबद्धसोपानमार्गा गारुत्मतशिला विरचितसोपानपरम्परा । मरकतः गारुत्मतः । तस्य शिलाभिः पाषाणैः आबद्धानि सोपानान्येव मार्गः यस्याः सा । ' गारुत्मतं मरकतं ' पार्श्वाभ्युदये....१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy