SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २८८ [पार्धाभ्युदये. 'उत्तरेण' इति भान्तस्य 'तोरणेन' इति भान्तपदेन सामानाधिकरण्ये न काऽपि क्षतिः, तोरणस्य दूरालक्ष्यत्वे तदुन्नतेर्हेतुभूतत्वात् । अतोऽत्र निरङ्कुशाः कवयः' इत्युक्तिन समाश्रयणीया। If you have a doubt who can helieve in this, the description given at length by you? . Is it correct or otherwise?' O sir! I shall verily settle your belief. Our ancestral palatial building, discernible from a long distance from the palace of the lord of wealth on account of the lofty archway looking beautiful owing to the Indra's bow (formed by the rays emanating froin the jewels inlaid in the door) पुष्पोद्गन्धिMदुकिसलयो भृङ्गसङ्गीतहारी सान्द्रच्छायः सलिलधरणोपान्तपुस्तैणशावः। यस्योद्याने कृतकतनयो वर्द्धितः कान्तया मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १३ ॥ अन्वयः- यस्य उद्याने पुष्पोद्गन्धिः, मृदुकिसलयः, भृङ्गसङ्गीतहारी, सान्द्रच्छायः, सलिलधरणोपान्तपुस्तैणशावः, मे कान्तया वर्धितः कृतकतनयः, हस्तप्राप्यस्तबकनमितः बालमन्दारवृक्षः (अस्ति)। पुष्पोद्गन्धिरित्यादि । यस्य भास्माकीनगृहस्य उद्याने आरामे पुष्पोद्गन्धिः। उद्गतः गन्धः यस्य स उद्गन्धिः । 'सुपूत्युत्सुरभेर्गुणस्य गन्धस्येः' इति बसत्वाद्गन्धस्यः सान्तः । पुष्पैः उद्गन्धिः पुष्पोद्गन्धिः। सञ्जातपुष्पत्वात्प्रादुर्भूतसौरभः इत्यर्थः । मृदुकिसलयः कोमलपल्लवः । मृदूनि सुकुमाराणि किसलयानि पल्लवानि यस्य सः। 'पल्लवोऽ स्त्री किसलय' इत्यमरः। भृङ्गसङ्गीतहारी। भृङ्गाः भ्रमराः। तेषां सङ्गीतं गुञ्जारवः सङ्गीतोपमः । भृङ्गगुञ्जारवस्य मनोहारित्वात्सङ्गीतोपमत्वमत्रावसेयम् । सङ्गीतमिव सङ्गीतम्। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् 'युक्तवदुसि लिङ्गसङ्ख्ये' इति नपुंसकत्वम् । तेन हारी मनोहरः भृङ्गसङ्गीतहारी । सान्द्रच्छायः निविडच्छायः । सान्द्रा निबिडा च्छाया यस्य सः । सलिलधरणोपान्तपुस्तैणशावः । सलिलं धरति ध्रियते वानेन इति सलिलधरणं । 'व्यानड् बहुलं' इति कर्तरि करणे वाऽनट् । आलवालमित्यर्थः । पुस्यते अभिमृद्यते मृदत्र पुस्तं । लेप्यकर्मेत्यर्थः । 'पुस्तं तु पुस्तके क्लीव विज्ञाने लोप्यकर्मणि' इति विश्वलोचने। पुस्तं लेप्यकर्म अस्य अस्तीति पुस्तः। 'ओऽभ्रादिभ्यः' इत्यः । लेप्यकर्मविनिर्मितः इत्यर्थः । एणशावः मृगशिशुः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy