SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] २८७ not missing their mark (or not wide of their mark), the lustful persons, with their eyes turned straight (to the lovers) with the knittings of their eyebrows, it may possibly be correct as the whole of the description given by the poets, not informed (or not knowing the facts), is quite possible owing to its being in conformity with the pattern proposed by poetics. स्यादाका बहुनिगदितं कस्तवेदं प्रतीयात् सद्वाऽसद्वा तदिति ननु भोः प्रत्ययं ते करोमि । तत्रागारं धनपतिगृहादुत्तरेणाऽस्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ॥ १२ ॥ 6 अन्वयः इदं तब बहुनिगदितं कः प्रतीयात् । तत् सत् वा असत् वा ? ' इति आरेका स्यात् । ननु भोः ते प्रत्ययं करोमि । तत्र सुरपतिधनुश्चारुणा उत्तरेण तोरणेन धनिपतिगृहात् दूरात् लक्ष्य अस्मदीयं अगारं ( वर्तते ) । - स्यादित्यादि । इदं पूर्ववर्णितं तव भवतः बहुनिगदितं बाहुल्येन प्रतिपादनं कः प्रतीयात् विस्रम्भेत ? न कोऽपीत्यर्थः । तत् बहुनिगदितं सत् वा सत्यं वा असत् वा मिथ्या वा इति एवंविधा आरेका सन्देहः स्यात् भवन्मनसि उत्पद्येत । ननु निश्चयेन भोः मुने ते भवतः प्रत्ययं विस्रम्भं करोमि निष्पादयामि । तत्र अलकापुर्यां सुरपतिधनुश्चारुणा इन्द्रधनुस्सुन्दरेण । सुराणां देवानां पतिः सुरपतिः इन्द्रः। तस्य धनुः कोदण्डं इव चारु मनोहरं । तेन । यद्वा सुरपतिधनुषा हेतुभूतेन चारु । तेन । तोरणद्वारखचितमणिकिरणोत्करोत्सर्गजनितेन कोदण्डाकारेण मनोहरेण । उत्तरेण उन्नततरेण तोरणेन बद्दिर्द्वारेण धनपतिगृहात् वैश्रवणप्रासादात् दूरात् दूरदेशात् लक्ष्यं दृश्यं अस्मदीयं अस्मत्स्वामिकं । अस्माकमित्यर्थः । दोश्छः' इति छ, अस्मन्छन्दस्य ' त्यदादि ' इति दुसञ्ज्ञत्वात् । अगारं गृहं वर्तते इति शेषः उत्तरेण इति पाठस्य “वैनोऽदूरेऽकायाः ' इतिसूत्रोक्तनत्यान्तत्वग्रहणे ' इप् चैनेन ' इति सूत्रानुसारेण ' धनपतिगृहात् ' इति पाठस्य स्थाने 'धनपतिगृहान् ' इति इबन्तेन पाठेन भाव्यं, अन्यथा कान्तपाठस्यानार्यत्वप्रसङ्गात् । कान्तोऽयं पाठः बहुषु प्राक्तनंप्रतिषु दृक्पथमवतरति । अत्र विषये " कथं तर्हि ' तत्रागारं धनपतिगृहादुत्तरेणाऽस्मदीयम् ' इति ? उत्तरेणेत्येतद् 'दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ' इति तोरणसमानाधिकरणं तृतीयान्तं न त्वेनवन्तमित्याहुः " इति तत्त्वबोधिन्यामुक्तम् । ५ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy