________________
२८६
[पार्धाभ्युदये
दृगन्तजातकटाक्षादिरूपा विलासाः। तैः एव । 'विभ्रमस्तु विलासे स्याद्विभ्रमो भ्रान्तिहावयोः' इति विश्वलोचने । 'हावः शृङ्गारभावाप्तौ रम्योक्तिस्मितीक्षितं' इति नाम्यशास्त्रे । 'कटाक्षं केकरापाझं विभ्रमस्तस्य वैकृतं ' इति धनञ्जयः । 'हावो मुखविकारः स्यात् भावश्चित्तसमुद्भवः । विलासो नेत्रजो शेयो विभ्रमोऽत्र दृगन्तयोः' इति धनञ्जयनाममालाभाष्ये । तस्य मदनस्य आरम्भः कामिजनवेघनव्यापारः सिद्धः सिद्धि प्राप्तः । सफलतामितः इत्यर्थः । इति एवं सति अपि अलकायां कामिजनवेधनन्यापारवति कामे सत्यपि यस्मात् यतः कारणात् कुकविरचितं । अल्पज्ञाः कवयः कुकवयः, कोरीषदर्थत्वात् । कविसमयवित्त्वेऽपि याथार्थ्यावदित्वात्कवीनामत्र कुकवत्विमध्यवसेयम् । अतोऽत्र कवेः कुत्सितत्वं न ग्राह्य, अपि तु अल्पज्ञत्वमेव, कविकुलगुरुकालिदासविरचितमेघदूताख्यकाव्यस्य अपदोषत्वस्य विधानेन विरोधापत्तेः । 'मत्वा देवं' इत्यादि यत् कालिदासेनोक्तं तत् कविसमयानुरोधादेवत्यवसेयम् । कथं आलंबनविभावाभावे नेत्रकटाक्ष विक्षेपााद्दीपनविभावाभावे च मदनोऽमोघायुधाघातः स्यात् ! कथं वा कामदेवस्य कामिलक्ष्यवेधनक्रियाभावे सत्यपि आलम्बनविभावे नेत्रकटाक्षादीनां कामिलक्ष्येष्वमोघत्वं सम्भवेत् ? कथं च पुरुषाणां कामाभावे कामित्वं साभवेत् ! अतः नालकायां मदनानावासः सम्भवति । अतः पूर्वश्लोकोक्तोऽभिप्रायो जनानां मिथ्येवेति भावः। कुकविना राचितं कल्पितं कुकविरचितम् । सकलं उदितं सकलं वर्णनं । उदित उक्तिः । 'नन्नावे क्तोऽभ्यादिभ्यः' इति क्तः नप् च । काव्यधर्नानुरोधात् काव्यशास्त्रोक्तनियमानुकूल्येन जाघटीति एव भृशं घटत एव । 'धोर्यङ् भृशाभीक्ष्णेऽशुभ्रुचेः' इति भृशार्थे बङ् । 'हलो यः' इति यङः यकारस्य खं । 'यङपोरेप द्यीकदाहाकः' इति चस्य दीः । यङ्तुरुस्तोबहुलम् ' इति ईडागमः । तस्मात् तत् मन्मथाभावस्य प्रतिपादनं सत्यं स्यात् कथञ्चित् सत्यं भवेत् , न सर्वथा । अलकायां यः मदनाभावः उक्तः स काव्यशास्त्रसिद्धान्तापेक्षया यथार्थः स्यात् , परमार्थसत्वापेक्षया तु न तयेति भावः । 'मत्वा देवं' इत्यादिश्लोकटीकायां ' यदनयंकरं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोगः इति भावः ' इति यन्मल्लिनाथेनोक्तं तद्विज्ञातुं अंहं न समर्थः । किं मदनप्रक्षितानां बाणानां नार्थक्रियाकारित्वम् ? किं तेषां स्वल्पफलदायित्वमेव ! मदनस्य भयाकुलस्य निष्क्रियत्वे कामिनीकटाक्षप्रक्षेपः कथं साध्यसिद्धिनिबन्धनम् ? अतो मलिनाथोक्तिः लोकार्थ विशदीकर्तुं नालमिति मे मतिः ।
Though it is so (i. e. incorrect) on account of his (i. e. of the god of love ) job being done by the graceful movements of the limbs themselves of clever women ) glances, themselves, of the clever women,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org