________________
तृतीयः सर्गः]
२८१
सुखजनकान् । शं सुखं फलंति निष्पादयन्तीति शम्फलाः । शमि वाचि खुत्वाभावाद् धोरट्त्यः । 'शम्यस्थो धोः खौ' इति प्राप्तोऽत्यः प्रतिषिद्धः । भोगान् भोगविषयान्। भोग्यानित्यर्थः । सुकृतिनि जने पुण्यभाग्जनार्थे । सुकृतं पुण्यं अस्य अस्तीति सुकृती । 'अतोऽनेकाचः' इति इन् । 'हेतौ सर्वाः प्रायः' इति ईप् । पम्फुलीति अत्यथै निष्पादयति । फल्धोईलि पिति गे 'यद् तुरुस्तोबहुलं' इति पितो गस्य ईडागमः । 'चर्फलामुच्चातः' इति चस्य नुगागमो धोरुङोऽतश्चोत्वम् । ' नश्वापदान्ते झलि' इति नुकोऽनुस्वारः । अत्यर्थ फलति निष्पादयतीत्यर्थः । पम्फलीतीति पाटो भ्रान्तः, यदि यङ्कुपि च धोरुडोऽत उत्त्वस्य विधानात् ।
In which the grove of wishfulfilling trees procreate in abundance for the righteous beautiful (or multi-coloured) garments, liquor capable of giving instructions to the eyes in connection with charming movements, the blossoming of flowers along with sprouts, a variety of ornaments, the longed-for objects of enjoyment worthy of being enjoyed for all times ( and ) producing happiness.
रुच्याहारं रसमभिमतं स्रग्विकल्पं विपञ्ची
माहार्याणि स्वरुचिरचितान्यंशुकान्यङ्गरागम् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्मिन्
एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७॥ अन्वयः- यस्मिन् एकः कल्पवृक्षः रुच्याहारं, अभिमतं रस, स्रग्विकल्पं, विपञ्ची, स्वरुचिरचितानि आहार्याणि अंशुकानि, अंगरागं, चरणकमलन्यासयोग्यं लाक्षारागं सकलं च अबलामण्डनं सूते।
रुच्याहारमित्यादि । यस्मिन् चैत्ररथापराभिधाने वैभ्राजाख्यवनप्रदेशे एकः कल्पवृक्षः एकः देवद्रुमः रुच्याहारं स्वाद्यमाहारं । रुच्यः स्वाद्यश्चासौ आहारः भोजनं च रुच्याहारः । तम् । अभिमतं अभीष्टं रसं रसविशेष स्रग्विकल्पं मालाप्रकारं विपञ्ची वल्लकीं। 'वीणा तु वल्लकी । विपञ्ची, सातु तन्त्रीभिः सप्तभिः परिवादिनी । ततं वीणादिकं वाद्यं' इत्यमरः । स्वरुचिरचितानि स्वेच्छानिर्मितानि । स्वा स्वीया रुचिः इच्छा स्वरुचिः । 'रुचिरिच्छा रुचा रुक्ता शोभाभिष्वङ्गयोरपि' इति विश्वलोचने । आहार्याणि मनोहारीणि अंशुकानि वस्त्राणि अङ्गरागं सौगन्ध्यबन्धुरं विलेपनं चरणकमलन्यासयोग्यं कमलोपमचरणविनिक्षेपार्ह । चरणे कमले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org