________________
२८२
[पार्धाभ्युदये
इव चरणकमले । तत्र न्यासः निक्षेपः । तस्य योग्यः । तम् । लाक्षारागं अलक्तकरसरूपं रञ्जनद्रव्यं । रज्यते अनेन इति रागः । रञ्जनद्रव्यमित्यर्थः । लाक्षा अलक्तकः एव रागः रञ्जनद्रव्यं लाक्षारागः । तम् । 'लाक्षा राक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः' इत्यमरः । सकलं च समस्तमेव अबलामण्डनं योषितां प्रसाधनसाधनं सते जनयति । आहारादिकं प्राणधार्य, मालादिकं कण्ठधार्य, वल्लकी कर्णाकर्णनीयां, अंशुकानि कटिधार्याणि, अङ्गरागं देहधार्य, लाक्षारागं चरणधार्य कल्पवृक्षः एकः एव यतः जनयति ततस्तस्य सकलाबलालङ्कारजनकत्वं प्रसिध्यतीति भावः। 'कचधार्य देहधार्य परिधेयं विलेपनं । चतुर्धा भूषणं प्राहुः स्त्रीणामन्यच्च दैशिकम्' इति रसाकरे ।
Wherein the wish-fulfilling tree alone generates the complete decoration of women, delicious food, juice agreeable to taste, a variety of garlands, a lute, beautiful garments so prepared as to agree with one's natural taste, a scented cosmic, lac-dye worthy of being applied to the lotus-like feet.
भूमिं स्प्रष्टु द्रुतमुखखुरा गह्लमाना इवाऽमी
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः । मन्दाक्रान्ता दिगिभविभुभिः स्पर्धमाना इवोचैः
शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् ॥८॥ अन्वयः- यत्र द्रुतमुखखुराः भूमि स्प्रष्टुं गहमानाः इव पत्रश्यामाः अमी वाहाः दिनकरहयस्पर्धिनः, प्रभेदात् त्वं इव वृष्टिमन्तः शैलोदग्राः मन्दाक्रान्ताः करिणः दिगिभविभुभिः उच्चैः स्पर्धमानाः इव ।
भूमिमित्यादि । यत्र अलकापुर्या द्रुतमुखखुराः प्रचलत्पूर्वकायाः वेगवच्छफाश्च। द्रुतमुखाश्च ते द्रुतखुराश्च द्रुतमुखखुराः । गतिमत्त्वाच्चलपूर्वकायाः वेगवखुराश्चेत्यर्थः । भूमि भुवं स्प्रष्टुं स्पर्शनाय गहमानाः इव गर्हमाणाः इव । 'गलादीनां बहुलम्' इति बाहुलकस्य विधानात् सम्प्रदानस्याप्रवृत्तौ 'वुण्तुम्लट् क्रियायां तदर्थायां' इति तुम् । पत्रश्यामाः पलाशवद्धरितवर्णाः अमी ते वाहाः अश्वाः। 'वाहोऽश्वस्तुरगो वाजी' इति धनञ्जयः। दिनकरहयस्पर्धिनः दिनकरतुरगसदृशाः। दिनकरस्य सूर्यस्य इयाः तुरगाः दिनकरहयाः। तैः स्पर्धन्ते समतां यान्तीति दिनकरहयस्पर्धिनः । व्योमसञ्चाराद्यपेक्षयोक्तिरियम् । प्रभेदात् अन्योन्यप्रतिघातात्, पक्षे मदोद्भेदजनितनावात् । त्वं इव भवानिव वृष्टिमन्तः जनितवृष्टयः । यथाऽन्योन्यप्रतिघातात् मेघाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org