SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ २८० [ पार्धाभ्युदये वाऽथ सा जनैः । सत्कृता वारमुख्या स्यात् कुट्टनी शम्भला समे' इत्यमरः । ताः सहायाः सहगामिन्यः येषां ते। यद्वा ताभिः सह अयः गमनं येषां ते । बद्धालापाः विरचित. संलापाः विरचितगोष्ठयः वा। कामिनः प्रादुर्भूतकामवासनाः वित्तभर्तुः धनदस्य भृत्याः अनुचराः वैभ्राजाख्यं वैभ्राजनामधेयं । चैत्ररथस्य कुवेरोद्यानस्य नामान्तरमिदम् । कामदायि कामवासनोद्भावकं अभिलषितप्रदानेन सन्तोषजनकं वा । बहिरुपवनं बाह्योद्यानं निर्विशन्ति अनुभूतिगोचरतां नयन्ति । Where the passionate attendants of Kubera, awakened by the shrill and deep sounds of tabor, possessing love for bees (fond of bees), accompained by celestial women playing the harlot, engaged in conversation, enjoy the outer garden, exciting passion (or fulfilling desires ), known as Vaibhraja. यस्मिन् कल्पद्रुमपरिकरः सर्वलोकोपभोग्या निष्टान्भोगान्सुकृतिनि जने शम्फलान्पम्फुलति । वासश्चित्रं मधु नयनयोविभ्रमादेशदक्षं पुष्पोद्धेदं सह किसलयभूषणानां विकल्पम् ॥ ६॥ अन्वयः- यस्मिन् कल्पद्रुमपरिकरः चित्रं वासः, नयनयोः विभ्रमादेशदक्षं मधु, किसलयैः सह पुष्पोद्भेद, भूषणानां विकल्पं, इष्टान् सर्वकालोपभोग्यान् शम्फलान् भोगान् सुकृतिनि जने पम्फुलीति । . यस्मिन्नित्यादि । यस्मिन् वैभ्राजाख्यवनप्रदेशे कल्पदुमपरिकरः देवद्रुमप्रचयः । कल्पद्रुमाणां परिकरः समूहः। 'समूहारम्भयोः प्रगाढगात्रिकाबन्धे च परिकरः' इति क्षीरस्वाम्यमरटीकायाम् । तथा चोक्तं- वृन्दप्राभवयोश्चैव पर्यङ्कपरिवारयोः । आरम्भे च परिस्तारे भवे परिकरस्तथा ॥' चित्रं मनोहरं नानावर्ण वा। वासः वस्त्रं । न यनयोः नेत्रयोः विभ्रमादेशदक्षं कटाक्षोपदेशदाने चतुरं । विभ्रमाणां कटाक्षाणां नेत्रपरिवर्तनविधीनां वा आदेशः उपदेशः अनुशासन वा । तत्र दक्षं निपुणं विभ्रमादेशदक्षं । मधु मद्याङ्गाभिधानकल्पवृक्षप्रदत्तः अनुत्पन्नजन्तुराशी रसविशेषः। स एव मध्वभिधानं धत्ते । किसलयैः पल्लवैः सह समं पुष्पोद्भदं पुष्पप्रसूति भूषणानां अलङ्काराणां विकल्पं विशेष इष्टान् अभिकाङ्कितान् सर्वकालोपभोग्यान् सर्वप्पभोगार्हान् । सर्वेषु कालेधूपभोग्यान् उपभोक्तुं योग्यान् । शम्फलान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy