SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] २७९ गायद्भिः । ' देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ' इति मेघदूतटीकायां मल्लिनाथः । किन्नरैः कविसमयप्रसिद्धैः गायकैर्देवविशेषैः सार्धं साकं । सहेत्यर्थः । यः पुण्यपाकः इष्टान् अभिलषितान् कामान् कामभोगान् उपनयति जनयति प्रापयति वा तं प्राक्तनं प्राग्भवे समुत्पन्नं पुण्यपाकं पुण्यफलं । प्राग्भवोपार्जितपुण्य कर्मफलमित्यर्थः। स्फुटं प्रव्यक्तं यथा शंसन्ति स्तुतिविषयतां नयन्ति । Where the attendants of Kubera, possessing inexhaustible treasures in their houses (i. e. mansions), having nothing left to be satisfied with (or resting saiisfied), along with the Kinnaras, possessing sweet voice, singing loudly the glory of Kubera, announce ( declare ) clearly the maturity of the Karmans (offering objects agreeable to desire), bound with soul on account of the meritorious acts done intentionally in former births. यस्यां मन्द्रानकपटुवै बधिता वित्तभर्तु त्या भृङ्गैः सममुपहितप्रीतयः कामदायि । वैभ्राजाख्यं विबुधवनितावारमुख्या सहायाः बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ५ ॥ अन्वयः - यस्यां मन्द्रानकपटुरवैः बोधिताः, भृङ्गैः समं उपहितप्रीतयः, विबुधवनितावारमुख्यासहायाः, बद्धालापाः, कामिनः, वित्तभर्तुः भृत्याः वैभ्राजाख्यं कामदायि बहिरुपवनं निर्विशन्ति । " यस्यामित्यादि । यस्यां वैश्रवणनगर्यामलकायां मन्द्रानकपटुरवैः गम्भीरपटुपटहरः । मन्द्राः गम्भीराः । ' मन्द्रस्तु गम्भीरे ' इत्यमरः । पटवः तीक्ष्णाश्च ते रवाः ध्वनयश्च पटुरवाः। ‘पटुर्वाग्मिनि नीरोगे तीक्ष्णे दक्षे स्फुटे त्रिषु । पटुः पुंसि पटोले स्त्री छत्रायां लवणे पटु' इति विश्वलोचने । आनकस्य पटहस्य पटुरवाः आनकपटुरवाः । मन्द्राः आनकपटुरवाः मन्द्रानकपटुरवाः । आनकः पटहे भेर्यो मृदङ्गे ध्वनदम्बुदे ' इति विश्वलोचने । बोधिताः विद्रावितनिद्राः भृङ्गैः षट्पदैः समं सह उपहितप्रीतयः मित्रत्वमुपगताः । जनितमित्रभावाः इत्यर्थः । विबुधवनितावारमुख्या सहायाः देवाङ्गनावारस्त्रीसहगामिनीकाः । विबुधाः देवाः । ' अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः' इत्यमरः । तेषां वनिताः स्त्रियः । ' स्त्री नारी वनिता मुग्धा' इति धनञ्जयः । अप्सरसः इत्यर्थः । ताः एव वारमुख्याः वारस्त्रियः । ' वारस्त्री गणिका वेश्या रूपाजी 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy