SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ २७४ [पार्श्वभ्युदये यक्षाणां कुमारिकाः । 'कन्या कुमारिकानार्यो राशिभेदौषधीभिदोः' इति विश्वलोचने । कनकसिकतामुष्टिनिक्षेपगूढः कनकवतीनां सिकतानां वालुकानां याः मुष्टयः तासां निक्षेपः गूढाः संवृताः । तैः सौवर्णसिकतामुष्टिप्रक्षेपनिहितीरत्यर्थः । अतः एव अन्वष्टव्यैः अन्वेषणाः। तृव्याश्चाहे' इत्यहाथै व्यः। मणिभिः रत्नैः सङ्क्रीडन्ते क्रीडां कुन्ति । 'समोऽकूजे' इति सम्पूर्वात् क्रीडः दः तस्य कूजनार्थवैकल्यात् । गढमण्याभिधया दैशिक्या क्रीडया सम्यक् क्रीडां कुर्वन्तीत्यर्थः । 'रत्नादिभिर्वालुकादौ गुप्तेद्रष्टव्यकर्मभिः । कुमारिभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता । रासक्रीडा गूढमणिगुप्त केलिस्तु लायनं । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः ॥ इति शन्दार्णवे। Where maidens, bringing into existence another womanly world ( or world abounding in women), the excellent bud of beauty, the triumphal banners of the fish-bannered god desirous of conquering, courted by the gods, play with gems, worthy of being searched for, being concealed by throwing handfuls of golden sands. इष्टान् कामानुपनयति यः प्राक्तनं पुण्यपाकं तं शंसन्ति स्फुटमनुचरा राजराजस्य तृप्ताः। अभय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै ___ रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ॥ ४ ॥ अन्वयः- यत्र अक्षय्यान्तर्भवनिधयः तृप्ताः राजराजस्य अनुचराः रक्तकण्ठे: धनपतियशः उद्गायद्भिः किन्नरैः सार्धं यः इष्टान् कामान् उपनयति तं प्राक्तनं पुण्यपाकं स्फुटं शंसन्ति । इष्टानित्यादि । यत्र अलकानगर्यो अक्षय्यान्तर्भवननिधयः अशक्यानुष्ठानक्षयभवनान्तर्गतनवनिधानाः। क्षेतुं शक्याः क्षय्याः । 'क्षिज्योः शक्तौ' इति शक्त्यर्थे क्षेरेचोऽय । न क्षय्याः अक्षय्याः । भवनस्य अन्तः अन्तर्भवनं । 'पारमऽध्येन्तस्तया' इति हसः। भवनान्तीग इत्यर्थः । अक्षय्याः अन्तर्भवनं निधयः येषां ते अक्षय्यान्तर्भवननिधयः । तृप्ताः जातसन्तोषाः । राजराजस्य कुबेरस्य । राजा यक्षाणां राजा राजराजः । 'राजाहःसखेष्टः' इति टः सान्तः। 'कुबेरस्व्यम्बकसखो यक्षराड् गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः' इत्यमरः । अनुचराः सेवकाः रक्तकण्ठैः मधुरस्वरः । रक्तः मधुरः कण्ठः कंठध्वनिः येषां ते । तैः । धनपतियशः कौवेरी कीर्ति । धनपतेः कुबेरस्य यशः कीर्तिः धनपतियशः । तत्। उद्गायद्भिः उच्चैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy