SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] २७७ शुमत्फ ला' इत्यमरः। क्रीडाद्रीणां क्रीडाप्रयोजनसिषाधविषया निर्मितानां पर्वतोन्नतमृत्तिकोत्कराणां । कृतकाचलानामित्यर्थः । उपान्ते समीपप्रदेशे अभीक्ष्णं सततं । सर्वकालमित्यर्थः । दीव्यन्ति क्रीडान्त । क्रीडां कुर्वन्तीति भावः । Where the Yaksas ( lit. those who have Kubera for their king or ruler ), attended upon by the breezes rendered cool by the waters of the Mandakini, having their heat warded off by the shadows of the Mandara trees grown in the forests grown along the banks, are, along with their better-balves, always interested in sporting in the vicinity of the pleasure-mountains (or of the mountains serving as an abode of pleasure ), possessing groves of plantain-trees, coloured like gold. सौन्दर्यस्य प्रथमकलिका स्त्रीमयीं सृष्टिमन्यां व्यातन्वाना जयकदलिका मीनकेतोर्जिगीषोः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः सक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥३॥ अन्वयः - यत्र सौन्दर्यस्य प्रथमकलिका स्त्रीमयीं अन्यां सृष्टिं व्यातन्वानाः, जिगोषोः मीनकेतोः जयकदंलिकाः, अमरप्रार्थिताः कन्याः कनकसिकतामुष्टिनिक्षेपगूढैः अन्वेष्टव्यैः मणिभिः सङ्कीडन्ते ।। सौन्दर्यस्येत्यादि । यत्र अलकापुर्यो सौन्दर्यस्य सुभगत्वस्य । मनोहरस्वस्येत्यर्थः । प्रथमकलिकां अनुपमेयकोरकरूपां स्त्रीमयीं स्त्रीप्रधानां स्त्रीबहुलां वा । 'अस्मिन् ' इति ' समूहवच्च बहुषु तयोः' इति वा मयट् । स्त्रियः प्रधानाः प्रचुराः वा अस्यामिति स्त्रीमयी। ताम्। टिस्वात् डी स्त्रियाम् । अन्यां विद्यमानाजगतो भिन्नां । अदृष्टपूर्वामित्यर्थः । व्यातन्वानाः कुर्वाणाः। व्यातन्वन्तीति व्यातन्वानाः । प्रकटीकुर्वन्त्य इत्यर्थः । जिगीषोः जेतुमिच्छोः । 'तुमीच्छायां धोर्वोप्' इति सन् 'सन्भिक्षाशंसादुः' इति सन्नन्तादुश्च । मीनकेतोः मकरध्वजस्य । कामदेवस्येत्यर्थः । जयकदलिकाः जयपताकिकाः। 'कदलीभपताकायां पताकायां मृगान्तरे । रम्भायां चाऽथ कदली पृश्न्यां डिम्ब्यां च शाल्मलौ' इति विश्वलोचने । अमरप्रार्थिताः निर्जराभिलषिताः । अमरैः निजैरैः प्रार्थिताः अभिलषिताः । अनेन तासां सौन्दर्यातिशयो ध्वन्यते, देवाङ्गनाभ्योऽपि तासां सुन्दरतरत्वमन्तरेण देवैः प्रार्थितत्वासम्भवात् । कन्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy