SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ २७६ [ पार्श्वाभ्युदये smaller shapes (or forms), skilled in imitating the erruption of the volumes of smoke, fall out shattered into pieces through windows as though having their fears roused at the sight of the couples there, engrossed in taking great pleasure in sexual enjoyment. स्त्रीभिः सार्धं कनककदलीषण्डभाजामुपान्ते क्रीडाद्रीणां निधिभुगधिपा यत्र दीव्यन्त्यभीक्ष्णं । मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः मन्दाराणां तटवनरुहां छायया वारितोष्णाः ॥ २ ॥ अन्वयः - यत्र मन्दाकिन्याः सलिलशिशिरैः मरुद्भिः सेव्यमानाः, तटवनरुहाँ मन्दाराणां छायया वारितोष्णाः, निधिभुगधिपाः स्त्रीभिः सार्धं कनककदलीषण्डभाज क्रीडाद्रीणां उपान्ते अभीक्ष्णं दीव्यन्ति । स्त्रीभिरित्यादि । यत्र अलकानामनगर्यां मन्दाकिन्याः गङ्गायाः । अवश्यं मन्दं अकति कुटिलगत्या गच्छतीति मन्दाकिनी । 'आवश्यकाधमर्ये णिन् ' इति आवश्यकस्य गम्यमानत्वाणिन् । ततश्च ङी । यद्वा मन्दं अकिनी मन्दाकिनी । मयूरव्यंसकादित्वात्सविधिः । सलिलशिशिरैः जलशीतलैः । सलिलेन जलेन शिशिराः शीतलाः सलिलश्चिशिराः । तैः । मरुद्भिः समीरणैः । वायुभिरित्यर्थः । सेव्यमानाः विहितशुश्रूषाः । सेव्यन्ते इति सेव्यमानाः । तटवनरुहां तीरदेशस्थवनरोहिणां । तटे तीरे वनानि तटवनानि । तत्र रोहन्तीति तटवनरुहः । तेषां । 'क्विप्' इति किप् । 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु' इत्यमरः । मन्दाराणां सौरद्रुमाणां मधुद्रुमाणां वा । 'मन्दारः पारिजातकः' इति 'पञ्चैते देवतरवः मन्दारः पारिजातकः' इति चामरः । 'मन्दारः सिन्धुरे धूर्ते मधुद्रौ धूर्तकामिनो:' इति विश्वलोचने । छायया अनातपेन | छयति छिनत्ति सन्तापं छाया । छो छेदने । 'छाया स्यादातपाभावे सत्कान्त्युत्कोच कान्तिषु)प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने इति विश्वलोचने । वारितोष्णाः दूरीकृतोष्णाः। छिन्नातपाः इत्यर्थः । निधिमुगधिपाः यक्षाः । निधीन् नवसङ्ख्याकान् भुनक्तीति निधिभुक् । कुबेरः इत्यर्थः । ' क्विप्' इति किपू । निधिभुक् अधिपः येषां ते निधिभुगधिपाः। राजराजानुचराः इत्यर्थः। स्त्रीभिः योषिद्भिः सार्धं साकं कनककदलीषड भाजां सुवर्णवर्णाभकदली वृन्दयुक्तानां । कनककदलीनां षण्डः वृन्दः चयः वा कनककदलीषण्डः । तान् भजते इति । तेषाम् । 'भजो ण्विः । 'पद्मादिवृन्दे षण्डोऽस्त्री षण्डः स्याद्गोपतौ चये' इति विश्वलोचने । कदली मोचा । 'कदली वारणबुसा रम्भा मोचांs Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy