________________
अथ तृतीयः सर्गः वेगादन्तर्भवनवलभेः सम्प्रविष्टाः कथञ्चित्
सूक्ष्मीभूताः सुरतरसिकौ दम्पती तत्रया। शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र आले
धूंमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ १ ॥ अन्वयः--यत्र वेगात् भवनवलभेः अन्तः सम्प्रविष्टाः कथञ्चित् सूक्ष्मीभूताः भूमोट्रारानुकृतिनिपुणाः तत्र (भवनवलभौ) सुरतरसिकौ दम्पती दृष्ट्वा शङ्कास्पृष्टाः इव स्वादृशाः जलमुचः जालैः जर्जराः ( सन्तः) निष्पतन्ति । - वेगादित्यादि । यत्र अलकाभिधायां वैश्रवणराजधान्यां वेगात् रभसात् शीप्रतयेत्यर्थः । भवनबलभेः गृहोपरिष्ठसाच्छादनगृहस्य । भवनस्य प्रासादस्य वलमिः साच्छादनमुपरिष्ठं गृहं । तस्याः । अन्तः अन्तर्भागे सम्प्रविष्टाः लब्धप्रवेशाः कथञ्चित् येन केनाऽपि प्रकारेण सूक्ष्मीभूताः शरीराकारविस्तारं परित्यज्य परिगृहीतदेहलाघवाः धूमोद्गारानुकृतिनिपुणाः जालोद्गीर्णधूमाकारानुकरणनदीष्णाताः । धूमस्य उद्गारः जालमुखेन बहिनिःसरणं धूमोद्गारः । तस्य अनुकृतिः अनुकरणं । तत्र निपुणाः कुशलाः धूमोगारानुकृतिनिपुणाः । तत्र भवनवलभी सुरतरसिको निधुवनक्रीडाजनितामन्दानन्दनिमग्नौ । रसः आनन्दः अस्य अस्तीति रसिकः । 'अतोऽनेकाच' इति ठन्। सुरते निधुवनक्राडीयां रसिकौ सुरतरसिकौ । यद्वा सुरतस्य रसः सुरतरसः । सोऽस्यास्तीति सुरतरसिक । तौ। अनेकाच्त्वात् ठन् । दम्पती जम्पती। जायापती इत्यर्थः। दृष्टा नयनातिथितां नीत्वा । विलोक्येत्यर्थः । शङ्कास्पृष्टाः भयाकुलाः। शङ्कया भीत्या स्पृष्टाः जनितस्पर्शाः। 'शङ्का त्रासे वितर्के च' इति 'मणिदोषे भये त्रासः' इति च विश्वलोचने । इव वा स्वादृशाः त्वत्सदृशाः । त्वमिव दृश्यते त्वादृशः। 'कर्मणीवे त्यदाद्यन्यसमाने दृशष्टक् सक् च' इति टक् । जलमुचः मेघाः। जलं मुञ्चतीति जलमुक् । 'विप्' इति विप् । जालैः गवाक्षैः। गवाक्षेभ्यः इत्यर्थः । 'जालस्तु क्षारकानायगवाक्षे दम्भवृक्षयोः' इति विश्वलोचने । जर्जराः शकलीकृतकायाः सन्तः निष्पतन्ति भवनवलभेः बहिः गच्छन्ति ।
Where, clouds like you, owing to their high speed, entered into the interior of the uppermost roofed terraces, turned gometow into
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org