SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २६९ दृशः नवोढाः शय्योत्थायं धावमानाः अस्तुिङ्गान् रत्नप्रदीपान् अभिमुखं प्राप्य अपि (तान् ) वदनमरुता अपासितुं न अलम् । __ आक्षिप्तेष्वित्यादि । यत्र राजराजराजधान्यामलकायां प्रियतमकरैः प्राणेशशयैः । प्राणनाथहस्तैरित्यर्थः । प्रमोहात् कामवासनोदयोद्रेकजनितप्रकृष्टभ्रान्तेः । प्रमोदादिति पाठान्तरे तु रतिसुखानुभूतिहेतोरित्यर्थः। अंशुकेषु अम्बरेषु । 'चेलं निवसनं वासश्वीरमम्बरमंशुकम्' इति धनञ्जयः । आक्षिप्तेषु परिहृतेषु सत्सु। अन्तलीलातरलितहशः । लीलया तरलिताः सञ्जातचाञ्चल्याः लीलातरलिताः। अन्तः लीलातरलिताः दृशः यासां ताः। नवोढाः नवपरिणीताः वध्वः शय्योत्थायं धावमानाः शय्यायाः उत्थाय प्रियकरकराक्षिप्तनिवसनपरिधानमङ्गानङ्गस्तनजघनादिस्मरसन्दीपनावयवपिधानप्रयोजनमवश्यकायमकृत्वा सत्वरं प्रपलायमानाः । ' त्वयंपादाने ' इति त्वरायां धोर्णमपादाने वाचि । अर्चिस्तुङ्गान् अल्पत्वेऽपि स्वमयूखैस्तुङ्गत्वं प्राप्तान् । अर्चिभिर्मयूखैः तुङ्गाः अर्चिस्तुङ्गाः । तान् । रत्नप्रदीपान रत्नरूपान् प्रदीपान् । रत्नान्येव प्रदीपाः रत्नप्रदीपाः। तान् । अभिमुखं सम्मुखं प्राप्य अपि गत्वा अपि तान् वदनमरुता मुखसमीरणेन अपासितुं निर्वापयितुं न अलं न समर्थाः । Where, the newly married ones (i.e. brides ), with their eyes turning inside sportively when their garments are snatched away by their lovers with their hands through excessive passion, running after having got up from their beds, (and) having even reached near jewellamps, possessing height owing to the rays (emanating from them), are unable to extinguish them with the wind breathed out of their mouths. वस्त्रापाये जघनभभितो दृष्टिपातं निरोर्बु यूनां क्लप्सा सुरभिरचिता यत्र मुग्धाङ्गनानाम् । कम्पायत्तात्करकिसलयादन्तराले निपत्य हीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ११६ ॥ अन्वयः- यत्र वस्त्रापाये ह्रीमूढाना मुग्धाङ्गनानां जघनं अभितः यूनां दृष्टिपातं निरोर्बु क्लप्ता सुरभिरचिता चूर्णमुष्टिः कम्पायत्तात् करकिसलयात् अन्तराले निपत्य विफलप्रेरणा भवति । वसापाये इत्यादि। यत्र वैश्रवणनगर्यामलकायां वस्त्रापाये कटीवस्त्रापगमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy