SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २६८ [पार्श्वभ्युदये भूतनीवि। आस्रस्ता श्लथीभूता नीवी स्त्रीकटीवस्त्रग्रन्थिः यस्य तत् । 'नीवी तु स्त्रीकटीवस्त्रग्रन्थौ मूलधने स्त्रियाम्' इति विश्वलोचने । श्रीमत् प्रचुरशोभायुक्तं । अत्र प्राचुर्ये मतुः । श्रोणीपुलिनवरणं उन्नतत्वात्पुलिनतुल्यश्रोणीप्रावरणं । श्रोणी जघनं पुलिनं सैकतमिव श्रोणीपुलिनं । 'व्याघ्रादिभिरुपमेयोऽतद्योगे' इति सः । 'कटिनितम्ब ओणी च जघनं' इति धनञ्जयः। पक्षे श्रोणीव पुलिनं श्रोणीपुलिनं । श्रोणीपुलिनयोरौनत्यसाधाच्छोण्या उपमानत्वमवसेयम् । श्रोणीव श्रोणी । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । 'युक्तवदुसि लिङ्गसङ्ख्ये' इति युक्तवालिङ्गम् । तस्य वरणं आवरकं । वृणोतीति वरणम् । 'व्यानबहुलम् ' इति कर्तर्यनट् । कटितटाकारपुलिनावरकमित्यर्थः । काञ्चीविभङ्ग रशनाविरचनं । काञ्च्याः रशनायाः विभङ्गः विरचना यत्र तत् । जलपक्षे काञ्चीसधीचीनविविधतरङ्गं । विविधाः भङ्गाः तरङ्गाः विभङ्गाः। काञ्च्यः इव काञ्च्यः। 'देवपथादिभ्यः' इति इवार्थस्य कस्योस् । कोसि च युक्तवल्लिङ्गम, । काञ्च्याकारसदृग्वलाकारावविधरङ्गत्तरङ्गमित्यर्थः । वारि वारीव वारि। सलिलतुल्यमित्यर्थ । क्षीमं दुकूलं । अनिभूतकरेषु सकम्पहस्तेषु । अनिभृताः मदनमदजीनतवे थुक्रान्ताः कराः हस्ताः येषां तेषु । प्रियेषु प्रियतमेषु रागात् निधुवनसेवनाभिलाषसम्पादनार्थ आक्षिपत्सु दूरमुत्सारयत्सु वधूनां कामिनीनां लज्जा हीः पूर्व प्रथमं विगलति विलयं याति ततः तदनन्तरं धर्मतोयं स्वेदसलिलं । विगलति निपतीति शेषः। Wherein, shame of women gets dislodged first and then the drops of perspiration drop-down when their lovers snatch away passionately with their tremulous hands the beautiful silken garments resembling water, possessing waves ( ripples ) circular like girdles, covering sandy beaches resembling the proturberent bips, owing to their being encircled by zones, covering hips resembling the sandy beaches, with their knots tying the ends of the garments loosened ( relaxed ) and possessing beauty similar to that of the beautiful face-cloth of an elephant. आक्षिप्तेषु प्रियतमकरैरंशुकेषु प्रमोहा दन्तीलातरलितदृशो यत्र नाऽलं नवोढाः। शय्योत्थायं वदनमरुताऽपासितुं धावमाना अचिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ।। ११५ ॥ अन्वयः- यत्र प्रियतमकरैः प्रमोहात् अंशुकेषु आक्षिप्तेषु अन्तर्लीलातरलित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy