________________
दितीयः सर्गः]
२६७ इति भावे क्तः। यूनां तरुणानां हारि मनोहरम् । 'हृद्यं हारि मनोहरं च रुचिरं' इति हलायुधः। कामप्रसवभवनं कामोत्पत्तिस्थानम् । कामस्य निधुवनसेवनामिलाषस्य प्रसवः उत्पत्तिः । तस्य स्थानम् । नूनं निश्चयेन । आदेष्ठुकामं प्रदर्शयितुकामं । आदेष्टुं प्रदर्शयितुं कामः अभिलाषः यस्य तत् । 'सम्तुमो मनःकामे' इति तुमो मकारस्य खम् । नाभेः अधस्तात् नाभेरधोभागे शनैः मन्दं मन्दं जिगलिषु गलितुमिच्छु । 'तुमीच्छायां धोर्वोप्' इति सन् । 'सन्भिक्षाशंसादुः' इत्युः । क्षौमं दुकूलं । 'क्षोमं स्यादतसीवस्त्रे क्षौममट्टदुकूलयोः' इति विश्वलोचने । वासः वस्त्रं काश्चीदाना रशनया किमपि कथमपि विधृतं जघनादधः पतनात् रक्षितं लक्ष्यते दृश्यते।
Where the beautiful garments of the beautiful women, with their lower lips red like the Bimba fruit, loosened owing to the untying of the knots tying together the ends of the garments worn by them round their buttocks, wishing to slip slowly down the navel with a desire to show the youths the abode of the origination of passion (or the abode provoking passion ), is seen as if sustained anyhow by the string-like girdle.
यस्यां कामद्विपमुखपटच्छायमात्रस्तनीवि
श्रीमच्छ्रोणीपुलिनवरणं वारि काश्चीविभङ्गम् । पूर्व लज्जा विगलति ततो धर्मतोयं वधूनां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ॥ ११४ ॥ अन्वयः- यस्यां कामद्विपसुखपटच्छायं, आस्रस्तनीवि श्रीमत् श्रोणीपुलिनवरणं काञ्चीविभङ्ग वारि, क्षौमं अनिभृतकरेषु प्रियेषु रागात् आक्षिपत्सु वधूनां लज्जा पूर्व विगलति, ततः धर्मतोयम् ।
यस्यामित्यादि। यस्यां अलकाभिख्यायामेकपिङ्गलनगर्या कामद्विपमुखपटच्छायं मदनद्विरदनमुखवस्त्रकान्ति । कामस्य मदनस्य द्विपः गजः कामद्विपः । तस्य मुखपटः मुखालङ्कारभूतः पटः। तस्य च्छायेव च्छाया कान्तिः शोभा यस्य तत् । बता द्विपस्य मुखपटः द्विपमुखपटः । कामः काम्यः । मनोहरः इत्यर्थः । 'कामः स्मरेन्छयोः काम्ये काम रेतोनिकामयोः' इति विश्वलोचने। कामश्चासौ द्विपमुखपटश्च कामाद्विपमुखपटः। तस्य च्छायेव च्छाया शोभा यस्य तत्। आस्रस्तनीवि लथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org