SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २६६ [ पार्श्वाभ्युदये भृत्यमन्त्रिणोः' इति विश्वलोचने । त्वद्गम्भीरध्वनिषु त्वन्मन्द्रगर्जितध्वनिनिभध्वानेषु । गम्भीरः मन्द्रश्चासौ ध्वनिर्ध्वानः गम्भीरध्वनिः । तव गम्भीरध्वनिरिव गम्भीर - ध्वनिः यस्य सः । तेषु । ' ईबुपमानपूर्वस्य दुखं गतार्थत्वात्' इति सः । पुष्करेषु वाद्यभाण्डमुखेषु। — पुष्करं व्योम्नि पानीये हस्तिहस्ताग्रपद्मयोः । रोगोरगौषधिद्वीपतीर्थभेदेऽपि सारसे। काण्डे खड्डफले वाद्यभाण्डवक्त्रे च पुष्करम् ' इति विश्वलोचने । मधुरं श्रुतिमनोहरं यथा स्यात्तथा । आहतेषु प्रताडितेषु सत्सु । यद्भावाद्भावगतिः' इति ईप् । दिव्यैः वल्गुभिः दिविभवैर्वा 'दिव्यं तु वल्गौ । दिविभवेऽन्यवत्' इति विश्वलोचने । गन्धैः घृष्टमलयजचन्दन विशेषैः सुरभिकुसुमैः सौगन्ध्यबन्धुरैः सुमनोभिः साक्षतैः सहतण्डुले: धूपदीपैः सङ्गीताद्यैः अपि नृत्यगीतवादित्रादिभिश्च जिनमहः 'जिनेन्द्रपूजोत्सवः । 'महस्तूत्सवतेजसोः ' इति विश्वलोचने । वर्त्यते विधीयते । Wherein in every house a festival in honour of Jina is celebrated by the subjects of Kubera, desirous of attaining religious merit (or cherishing desires for happiness), through love for religion, with heavenly ( or charming ) pounded sandal-wood, rice, fragrant flowers, incense and light in company with songs sung by many voices etc., while kettle-drums, producing deep noise like that of you, are being gently beaten. वासः क्षौमं जिगलिषु शनैर्नूनमादेष्टुकामं यनां कामप्रसवभवनं हारि नाभेरधस्तात् । arata किमपि विधृतं लक्ष्यते कामिनीनां नीवीबन्धक छुसित शिथिलं यत्र बिम्बाधराणाम् ॥ ११३ ॥ अन्वयः— यंत्र बिम्बाधराणां कामिनीनां नीवीबन्धोच्छ्रासतशिथिलं यूनां हारि कामप्रसवभवनं नूनं आदेष्टुकामं नाभेः अधस्तात् शनैः जिगलिषु क्षौमं वासः काचीदाना किमपि विधृतं लक्ष्यते । वास इत्यादि । यत्र अलकाभिधानायां वैश्रवणनगर्यो बिम्बाधराणां पत्रबिम्बिका फल तुल्यरक्तवर्णाधराणां कामिनीनां कामाभितप्तानां योषितां नीवीबन्धोछ्वास तशिथिलं जघनवसनग्रन्थिविश्लेषश्लथीभूतं । नीव्याः जघनवसनस्य गुणीकृतस्य बन्धः ग्रन्थिः नीवीबन्धः । ' नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि' इति विश्वः | तस्य उच्छूषितमुच्छ्रासः विश्लेषः तेन शिथिलं श्लथीभूतं । ' नव्भावें क्तोऽभ्यादिभ्यः > Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy