SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] ' अर्थः प्रयोजने चित्ते हेत्वभिप्रायवस्तुषु । शब्दाभिधेये विषये स्यान्निवृत्तिप्रकारमोः इति विश्वलोचने । स्वाधीने स्वायत्ते सति । स्वस्यात्मनः अधीनं आयत्त स्वाधीनं । तस्मिन् । इच्छोद्बोधमात्रेण कल्पवृक्षान्त्तत्प्रसूतेः फलस्य स्वाधीनत्वमिति भावः । विफलं निष्फलं । मदनाचार्यकमिति पदमध्याहार्यम् । तेन मदनाचार्यकं विफलमिति भावः । इति वा इत्यस्माद्धेतोरेव कल्पवृक्षप्रसूतं कल्पपादपप्रभवं रतिफलं स्मरोद्दीपनं । रतिः मैथुनोपसेवनं फलं परिणामः यस्य तत् । ' तालक्षीरसितामृतामलगुडोन्मत्तास्थि• कालाहवदार्विन्द्रद्रुममोरटेक्षुकदली गुल्मप्रसूनैर्युतम् । इत्थं चेन्मधु पुष्पभयुपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं स्वादुशीत मधु' इति रतिफलाख्यमधुलक्षणं मदिराणवाख्यग्रन्थादुध्दृतं मल्लिनाथेन मेघदूतटीकायाम् । मधु मैरेयं । 'मधु पुष्परसे क्षौद्रे मद्यक्षीराऽप्सु न द्वयोः । मधुर्मधूके सुरभौ चैत्रे दैत्यान्तरे पुमान् । जीवाशाके स्त्रियामेवं मधुशब्दः प्रयुज्यते ' इति विश्वलोचने । न आसेवन्ते न पिवन्ति । गेहे गेहे धनदसचिवैर्यत्र धर्मानुरागात् दिव्यैर्गन्धैः सुरभिकुसुमैः साक्षतैर्धूपदीपैः । सङ्गीताद्यैरपि जिनमहो वर्त्यते पुण्यकामै स्त्वद्गम्भीरध्वनिषु मधुरं पुष्करेष्वाहतेषु ॥ ११२ ॥ Where the beautiful-eyed ones, with the corners of their eyes manifesting passion, taking delight in sexual intercourse, manifesting knittings of eyebrows in excess, able to act the part of a preceptor teaching the secrets of sexual enjoyment to their lovers in privacy, do not enjoy wine, coming forth from the wish-fulfilling trees, leading on to sexual intercourse, as if on account of the futility of the preceptorship when the desired object is in one's own possession. २६५ , अन्वयः - यत्र गेहे गेहे धर्मानुरागात् पुण्यकामैः धनदसचिवैः स्वगम्भीरध्वनिषु पुष्करेषु मधुरं आहतेषु दिव्यैः गन्धैः सुरभिकुसुमैः साक्षतैः धूपदीपैः सङ्गीताद्यैः अपि जनमहः वर्त्यते । Jain Education International इत्यादि । यत्र धनदराजधान्यां गेहे गेहे प्रतिगेहूं धर्मानुरागात् धर्मभक्त्या | धर्मे परापरनिःश्रेयससम्पादके रत्नत्रयधर्मे अनुरागः भक्तिः । तस्माद्धेतोः । पुण्यकामैः पुण्याभिलाषवद्भिः । पुण्यं कामयन्ते इति पुण्यकामाः । तैः । धनदसचिवैः कुबेरस्य भृत्यैर्मन्त्रिभिश्च । धनदस्य कुबेरस्य सचिवाः भृत्याः मन्त्रिणश्च । तैः । ' सचिवो For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy