SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २६४ [. पार्श्वाभ्युदये the courtyards, covered with pavements of sapphire, of the mansions, decorated with flowers in the form of reflected luminaries, giving enlivening pleasure (or emitting fragrance of liquor ), with their surfaces whitened by moonlight, have sexual enjoyment again to their full satisfaction. लोलापाङ्गाः सुरसरसिकाः प्रोन्नतभ्रूविकाराः प्राणेशानां रहसि मदनाचार्यकं कर्तुमीशाः । Faratasर्थे विफलमिति वा वामनेत्रा न यस्यामासेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतम् ॥ १११ ॥ अन्ययः- यस्यां लोलापाङ्गाः सुरसरसिकाः प्रोन्नतभ्रूविकाराः रहसि प्राणेशानां मदनाचार्यकं कर्तुं ईशाः वामनेत्राः ' अर्थे स्वाधीने [सति मदनाचार्यकं ] विफलं ' इति वा कल्पवृक्षप्रसूतं रतिफलं मधु न आसेवन्ते । " लोलापाङ्गा इत्यादि । यस्यां अलकाभिधानायामैलविलनगर्यो लोलापाङ्गाः तृष्णनेत्रान्ताः तरलनयनान्तप्रदेशाः वा । लोलाः सतृष्णाः चलाः वा अपाङ्गाः नेत्रान्ताः यासां ताः । ' लोला जिह्वाश्रियोर्लोलः सतृष्णचलयोस्त्रिषु' इति ' अपाङ्गस्त्वङ्गविकले नेत्रान्ते तिलके पुमान्' इति च विश्वलोचने । सुरसरसिकाः सम्भोगशृङ्गाररसाभिज्ञाः । सुरसः शृङ्गाररसः । तस्य रसः स्वादः अनुभवः सुरसरसः । सोऽस्त्यस्याः सा सुरसरसिका । * अतोनेकाचः ' इति ठन् । ' रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्यांग्रागे गन्धरसे तनौ । रसो घृतादावाहारपरिणामोद्भवेऽपि च इति विश्वलोचने । प्रोन्नत भ्रूविकाराः वृद्धिंगतभ्रूभङ्गाः। प्रोन्नताः उन्नतिं प्राप्ताः । वृद्धिङ्गताः इत्यर्थः । भ्रुवोभ्रुकुट्योः विकाराः भ्रूविकाराः । प्रोन्नताः विकाराः यासां ताः । रहसि विविक्ते रतिक्रीडार्थं वा । 'तच्चे गुह्ये रते रहः ' इति विश्वलोचने । प्राणेशानां प्राणनाथानाम् । प्राणानामीशते इति प्राणेशाः । तेषाम् । मदनाचार्यकं मान्मथमाचार्यकम् । मदयति मदं कामोद्रेकं जनयति इति मदनः । ' मृदा ध्वर्थे णिज्बहुलम्' इति णिच् । व्यानड् बहुलम् ' इति कर्तर्यनट् । मदनः एव आचार्यः मदनाचार्यः । तस्य भावः कर्म वा मदनाचार्यकम् । 'योङो रूपोत्तमाद्भुज् ' इति वुञ् । मदनाचार्य वत्कामोद्रेकजननकर्मेत्यर्थः । कर्तुं विधातुं ईशाः समर्थाः वामनेत्राः कामुक्यः । वामे सुन्दरे नेत्रे यस्याः सा वामनेत्रा । ' नितम्बिन्यबला बाला कामुकी वामलोचना | भामा तनूदरी 'शमा सुन्दरी युवती चला ' इति धनञ्जयः । अर्थे प्रयोजने निधुवनसेवनरूपें फले । ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy