SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २६३ gone to the mansions resplendent like fully developed autumnal moonlight, those who have lost control over themselves owing to their being love-lorn having gone with their yonng beloveds to the lofty ones endowed with the warmth of wealth, those who have all the longings fulfilled, having gone to the mansions of crystal, amuse themselves. यत्र ज्योत्स्नाविमलिततलान्याश्रिताः कुट्टिमानि प्रासादानां हरिमणिमयान्यासवामोदवन्ति । रंरम्यन्ते द्रविणपतयः पूर्णकामा निकामं ज्योतिश्छायाकुसुमरचनान्युत्समस्त्रीसहायाः ॥ ११० ॥ अन्वयः- यत्र ज्योत्स्नाविमलिनतलानि हरिमणिमयानि आसवामोदवन्ति ज्योतिश्छायाकुसुमरचनानि प्रासादानां कुट्टिमानि आश्रिताः पूर्णकामाः उत्तमस्त्रीसहायाः द्रविणपतयः निकामं रम्यन्ते। यत्रेत्यादि । यत्र अलकानगीं ज्योत्स्नाविमलित तलानि कौमुदीशुक्लीकृतपृष्ठप्रदेशानि । ज्योत्स्नया कौमुद्या विमलितानि शुक्लीकृतानि ज्योत्स्नाविमलितानि । 'मृदो ध्वर्थे णिज्बहुलं' इति करोत्यर्थे णिज् । णिजन्ताच्च भूतार्थे क्तः । ज्योत्स्ना. विमलितानि तलानि पृष्ठप्रदेशाः येषां तानि। हरिमणिमयानि इन्द्रनीलमणिनिर्मितानि । विकारार्थेऽत्र मयट् । आसवामोदवन्ति उत्तेजनसुगन्धिद्रव्यवन्ति । आसवाः उत्तेजनाश्च ते आमोदाः सुदन्धिद्रव्याणि च आसवामोदाः । यद्वा आसवामोदः मद्यसौगन्ध्यं । सोऽस्त्येषामित्यासवामोदवन्ति । 'सुगन्धिमुदि वामोदः ' इति विश्वलोचने । ज्योतिइछायाकुसुमरचनानि तारकानिकरप्रतिविम्बकुसुमालकृतानि । ज्योतिषां ग्रहनक्षत्रप्रकीर्णकतारकाणां छायाः प्रतिबिम्बानि ज्योतिश्छायाः। 'ज्योतिस्तारामिभावालादृक्पुत्रार्थाध्वरात्मसु' इति वैजयन्ती। 'छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तक्ष पङ्क्तौ च पालने' इति विश्वलोचने । ज्योतिश्छाया एव कुसुमरचनानि यत्र । कुसुमानां रचनानि कुसुमरचनानि । प्रासादानां हाणां कुट्टिमानि अङ्गणस्थानि कान्तोपलघटितानि कुट्टिमानि आश्रिताः संश्रिताः पूर्णकामाः वृद्धिंगतकामवासनाः उत्तमस्त्रीसहायाः सललितललनाः द्रविणपतयः यक्षाः निकामं यथेच्छं रंरम्यन्ते अत्यर्थ रमन्ते । अत्यर्थ रतिक्रीडानिरताः भवन्तीत्यर्थः । Wherein the Yaksas [ lit. the lords of wealth ] associated with their most beautiful wives, with their passions intensified, resorted to Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy