SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २६२ . [पार्धाभ्युदये Sirisa flowers are put on the ears, and the Nipa flowers, put forth at the time of your advent, are placed at the parting lines of their bair, there the beauty (or pleasure ) generated by the combination of the six seasons is clearly manifested. शक्रम्मन्याः परिणतशरचन्द्रिकानिर्मलानि प्रोत्तुङ्गानि प्रणयविवशाः स्वापतेयोष्मवन्ति । आक्रीडन्ते प्रिययुवतिभिः सर्वकामाभितृप्ता यस्यां यक्षाः सितमाणिमयान्येत्य हर्म्यस्थलानि ॥१०९।। अन्वयः- यस्यां शक्रम्मन्याः यक्षाः परिणतशरच्चद्रिकानिर्मलानि, प्रणयविवशाः प्रिययुवतिभिः प्रोत्तुङ्गानि स्वापतेयोष्मवन्ति, सर्वकामाभितृप्ताः सितमणिमयानि हर्म्यस्थलानि एत्य आक्रीडन्ते । शक्रमित्यादि । यस्यां अलकायां शक्रम्मन्याः शक्रमानिनः । शक्रमात्मानं मन्यन्ते इति शक्रम्मन्याः । 'खशस्वस्य' इति स्वस्य सुपि वाचि मन्यतेः खङ्ग, तस्य खित्वाच्च 'मुमचः' इति मुमागमः । यक्षाः गुहाः परिणतशरच्चन्द्रिकानिर्मलानि सकलकलशारदकलानिधिकौमुदीविमलानि । परिणता पूर्णतां प्राप्ता शरच्चान्द्रका शरत्कालोदितसम्पूर्णचन्द्रचन्द्रिका परिणतशरच्चन्द्रिका । सेव निर्मलानि विशदानि । अदभ्रशुभ्रवर्णानीत्यर्थः । हार्यस्थलान्येत्यति शेषः । प्रणयविवशाः मदयित्नुमदनमथितमनस्कारत्वाद्विनष्टसज्ञाः । विषयाशावशाधीनाः इत्यर्थः । प्रणयेन विवशाः प्रणयस्य वा विवशाः प्रणयविवशाः । प्रिययुवतिभिः प्रियाङ्गनाभिः सह प्रोत्तुङ्गानि उन्नततमानि स्वापतेयोमवन्ति धनोष्मसम्पन्नानि । स्वापतेयं धनं । स्वपतौ साधु स्वापतेयं । 'पथ्यतिथिवसतिस्वपते' इति साध्वर्थे स्वपतिशब्दाइ।स्वापतयस्योष्मा स्वापतेयोष्मा। स प्रशस्तः नित्यं वा एषामस्तीति स्वापतेयोष्मवान्त। प्रशंसायां नित्ययोगे वा मतुः । दारिद्यशीतकदंशजनितातिविकलानि धनजनितसुखसाधनसम्पन्नानीत्यर्थः । सर्वकामाभितृप्ताः सफलीकृतसकलाभिलाषाः । सर्वे च ते कामाः अभिलाषाश्च सर्वकामाः। अभितृप्ताः सर्वकामाः येषां ते । वाहिताग्न्यादित्वात्सः। सितमणिमयानि स्फटिकमणिपाषाणविनिर्मितानि । विकारे प्राचुर्ये वा मयट् । हर्म्यस्थलानि प्रासादभूमीः एत्य सम्प्राप्य आक्रीडन्ते क्रीडां कुवान्त । । Wherein those Yaksas, who fancy themselves to be Indras, having Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy