________________
[ पार्श्वाभ्युदये
ही मूढानां
लज्जाविकली कृत हेयोपादेयत्यागोपादानज्ञानशक्तीनां
मुग्धाङ्गनानां
'
6
1
सुन्दरीणां । सुन्दरे वाच्यवन्मुग्धो मुग्धो मूढेऽपि वाच्यवत्' इति विश्वलोचने । जघनं अभितः कटिप्रदेशं सर्वतः । पर्यभिसर्वोभयैस्तस्त्यैः इत्यभिना तत्यान्तेन योगे इप् । यूनां तारुण्यतरलात्मनां पुरुषाणां दृष्टिपातं कटाक्षनिक्षेप निरोद्धुं प्रतिबद्धुं क्लृप्ता निक्षिप्ता सुरभिरचिता सौगन्ध्यबन्धुरद्रव्यवेिनिर्मिता । चूर्णमुष्टिः क्षुण्णद्रव्यमुष्टिः म्पायन्तात् वेपथुमतः । ' अधीनो निघ्न आयत्तः इत्यमरः । कटिवस्त्रापहरणजनितक्रीडाप्रभववेपथोः इत्यर्थः । कराकसलयात् किसलयकोमलकरात् । करः किसलयः इव कर किसलयः । तस्मात् । अन्तराले कररत्नदीपयोरन्तरालप्रदेशे निपत्य पतित्वा विफलप्रेरणा युवकटाक्षनिक्षेप निरोधलक्षण फलविकलप्रक्षेपव्यापारा । विफला दृष्टिनिरोधफल विकला प्रेरणा प्रक्षेनक्रिया यस्याः सा । भवति जायते ।
२७०
Where the handfuls of powder, consisting of the ingredients of perfumes, scattered for obstructing the glances of the youths cast on all sides of the buttocks of the beautiful women, bewildered on account of their being flushed with shame, have their hurls rendered futile, on account of their having fallen from their tremulons sprout-like hands in the intermediate region.
"
प्रत्यासन्नैः शिखरखचितैरुन्मयूखैर्विचित्रै
चित्रा रत्नैर्नभसि वितताः शक्रचापानुकारैः । बिभ्रत्युच्चैः सजलजलदा सद्वितानस्य लीलां
नेत्रा नीताः सततगतिना यद्विमानाप्रभूमीः ॥ ११७ ॥
अन्ययः- नेत्रा सततगतिना यद्विमानाग्रभूमीः नीताः, शिखरखचितः प्रत्यासन्नैः शक्रचापानुकारैः रत्नैः विचित्रैः उन्मयूखैः वितताः चित्राः सजलजलदाः नभसि सद्वितानस्य लीलां विभ्रति ।
I
प्रत्यासन्नैरित्यादि । नेला प्रेरकेण । नयति प्रेरयतीति नेता । तेन । सततगतिना सदागतिना । वायुनेत्यर्थः । ' पवनः पवमानश्च वायुर्वातोऽनिलो मरुत् । समीरणो गन्धवाहः श्वसनश्च सदागतिः ॥ नमस्वान् मातरिश्वा च चरण्युर्जवनस्तथा । प्रभञ्जनः' इति धनञ्जयः। यद्विमानाग्रभूमीः अलकानगरी सप्तभूमिकगृहाग्रभाग्भूमी: । बस्याः अलकायाः विमानाः सप्तभूमिकानि गृहाणि यद्विमानाः । ' विमानो व्योमयानेऽस्त्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org