SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २६० [ पार्श्वाभ्युदये भिष्वङ्गयोरपि ' इति विश्वलोचने । तथा तदानुकूल्येन रचिते विहिते । कल्पवृक्षप्रसूते कल्पवृक्षाज्जाते । कल्पवृक्षात् कल्पपादपात् प्रसूतः जातः कल्पवृक्षप्रसूतः । तस्मिन् । आकल्पे भूषणे । यद्वा स्वरुचिरचिते आकल्पे कल्पवृक्षप्रसूते सत्येवेत्यन्वयः । सत्येव सत्यपि ताभिः तत्रत्याभिः स्त्रीभिः । यक्षस्त्र भिरित्यर्थः । चूडापाशे केशबन्धे । ' चूडावलयभेदे स्याच्छिखायां वलभावपि ' इति ' पाशः पक्षादिवन्धे स्याच्चयार्थस्तु कचात्परः । छात्राद्यन्ते च निन्दार्थः कर्णान्ते शोभनार्थकः' इति च विश्वलोचने । आत्तानुरागं गृहीतलौहित्यं नवकुरबकं प्रत्यग्रकुरबककुसुमं । ' तत्र शोणे कुरबकम् इत्यमरः । कुरबकं वसन्तर्तुसम्भवः पुष्पविशेषः । नवं प्रत्यग्रं च तत् कुरबकं च नवकुरबकम् । कर्णे कर्णपाशे चारु मनोहरं शिरीषं मुकुमारपुष्पविशेषं । ' शिरीषस्तु कपीतनः ' इत्यमरः । शिरीषं ग्रीष्मर्तुसम्भवः पुष्पविशेषः । यत् यस्मात् कारणात् उपनिहितं स्थापितं तत् तस्मात् कारणात् यक्षस्त्रीणां यक्षयोषितां अभिनवप्रर्ति आहत्य | अभिनवप्रीत्यपेक्षयेत्यर्थः । अभिनवे प्रीतिः रुचिः अभिनवप्रीतिः । ताम् । आहत्य अपेक्ष्य । किश्चित् तुच्छं वस्तु प्रियं प्रियंकरं स्यात् भवेत् । कल्पपादपप्रदत्तेऽ नभरणे सत्यपि तासां यक्षस्त्रीणामभिप्रियत्वात्तच्छान्यपि शिरीषकुरवकादीनि पुष्पाणि प्रियंकराणि तत्र भवेयुरिति भावः । As the female Yaksas wherein have put fresh Kadamba flower in their luxuriant hair on the head, and the charming Sirisa on the ear even when there are ornaments prepared to their liking, brought forth by the wish-fulfilling trees, any insignificant thing must have been dear to them owing to their being attached to the love for novelties. पाणौ पद्मं कुरवकयुतं स्वोचिते धानि कुन्द लोध्रो रेणः स्तनपरिसरे हारि कर्णे शिरीषम् । व्यक्तिव्यक्तं व्यतिकरमहो तत्र षण्णामृतूनां सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ १०८ ॥ अन्ययः- यत्र वधूनां पाणौ पद्म, स्वोचिते धान्नि कुरवकयुतं कुन्दं, स्तनपरिसरें लौनो रेगुः कर्णे हारि शिरीषं, सीमन्ते च त्वदुपगमजं नीपं तत्र षण्णां ऋतूनां , व्यतिकरमहः व्यक्तिव्यक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy