SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २५९ घटत एवेति भावः । अस्ताः परिहृताः दोषाः यया सा । पक्षे अस्ता परिहता दोषा रात्रिः यया सा अस्तदोषा । अकलका निष्कलङ्का। ज्योत्स्नायाः सकलड़योनित्वासिकलकत्वात्तस्याः आननश्रियः आधिक्यं सिद्धम्। अतः आननश्रीसम्पादितः ज्योत्स्नोपहासः सामञ्जस्यमहति । हिममहिमजां हेमन्तओसामर्थ्यजनिता । हिमस्य शीतों महिना प्रकर्षेण जाता हिममहिमजा । ताम् । लक्ष्मी शोभा । 'लक्ष्मीः श्रीरिव सम्पत्तो पद्माशोभाप्रियङ्गुषु' इति विश्वलोचने। वनोपवनशोभामित्यर्थः । मानयन्तीभिः सत्कुर्वन्तीभिः आभिः तत्रत्यस्त्रीभिः लोध्रप्रसवरजसा। लोध्रालोध्रकुसुमात् प्रसवः उत्पत्तिर्यस्य तल्लोध्रप्रसवं । तच्च तद्रजश्च । तेन। लोध्रकुसुमप्रभवपरागसाधनेनेत्यर्थः। 'गालवः शाबरो लोघः' इति 'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने' इति चामरः । 'प्रसवो गर्भमोक्षे स्यावृक्षाणां फलपुष्पयोः। परम्पराप्रसङ्गे च लोकोत्पादे च पुत्रयोः' इति ' रजः परागे रेणौ तु रजवदृश्यते रजः' इति च विश्वलोचने । भूयः पुनः पुनः। 'भूयस्तु स्यात् पुनःपुनः । अनव्ययं प्रभूतार्थे ' इति विश्वलोचने। पाण्डुतां शौख्यं नीता प्रापिता स्त्रीणां योषितां आननश्रीः मुखसौन्दर्य प्रालेयांशोः शीतांशोः । चन्द्रमसः इत्यर्थः । श्रियं शोभा । ज्योत्स्नामित्यर्थः । उपहसति परिहसति । Wherein the beauty of the faces of the women ( residing in that city ], rendered white with the pollens of the Lodhra-flowers by themselves again and again, highly appreciating the beauty manifested by the glory of winter-season, made elegant by glittering moon-light in the form of the white lustre of smiles (of the women ), free from all drawbacks, spotless, would laugh at the beauty of the moon. यत्राकल्पे स्वरुचिरचिते कल्पवृक्षप्रसूते सत्येव स्यात्प्रियमभिनवप्रीतिमादृत्य किञ्चित् । यक्षस्त्रीणां यदुपनिहितं ताभिरात्तानुरागं चूडापाशे नवकुरबकं चारु कर्णे शिरीषम् ॥ १०७॥ अन्वयः- यत्र स्वरुचिरचिते कल्पवृक्षप्रसूते आकल्पे सति एव ताभिः चूडापाशे आत्तानुरागं नवकुरबकं, कर्णे चारु शिरीषं यत् उपनिहितं तत् यक्षस्त्रीणां अभिनवप्रीतिं आदृत्य किञ्चित् प्रियं स्यात् ।। यत्रेत्यादि । यत्र अलकायां स्वरुचिरचिते स्वच्छन्दानतिक्रमेण विहिते । स्वस्व आमनः रुचिः इच्छा स्वाचिः। 'रुचिरिच्छा रचा रस्ता शोभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy