________________
२५८
[ पार्धाभ्युदये
लोचने । कुन्दकुसुमं कुन्दं । 'पुष्पमूलेषु बहुलमुप्' इति पुष्पत्यस्योप् । बालान्योन्मीलितानि च तानि कुन्दानि कुन्दकुसुमानि च बालकुन्दानि । तेषामनुविद्धमनुवेधः विरचनाविशेषः । तत् । यद्वा बालकुन्दयोरनुविद्धम् । 'बालः पुंसि शिशौ केशे वाजिवारणवालधौ । मूर्खेऽपि बालो बालं तु ह्रीबेरे पुनपुंसकम्' इति विश्वलोचने । बालं ह्रीबरं च कुन्दं कुन्दकुसुमं च बालकुन्दे । प्रत्येकशोऽत्र जातावेकवचनम् । तयोरनुविद्धं रचनाविशेषः । तत् । सपदि शीघ्रं । 'द्राङ् मङ्घ सपदि द्रुते' इत्यमरः। विसृजेदेव परित्यजेदेव । इति मन्ये जाने ।
I think that Laxmi ( the goddess of beauty ) flushed with shame on seeing the bodies, naturally beautiful, regarded as most excellent in all the three worlds, of the belles of which, would certainly throw off immediately the lotus-flower held in the hand as a play-thing, remove the particular construction of semi-blossomed Kunda flowers beset in her curly hair after uprooting her hair.
यत्र स्त्रीणां स्मितरुचिलसज्ज्योत्स्नयाऽऽबद्धशोभा
प्रालेयांशोः श्रियमुपहसत्यस्तदोषाऽकलङ्का । भूयो लक्ष्मी हिममहिमजां मानयन्तीभिराभि___ नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ॥ १०६ ॥
अन्वयः-यत्र स्मितरुचिलसज्ज्योत्स्नया आबद्धशोभा, अस्तदोषा, अकलङ्का, हिममहिमजां लक्ष्मी मानयन्तीभिः आभिः लोध्रप्रसवरजसा भूयः पाण्डुतां नीता, स्त्रीणां आननश्रीः प्रालेयांशोः श्रियं उपहसति ।।
यत्रेत्यादि । यत्र अलकायां स्मितरुचिलसज्ज्योत्स्नया मृदुहासकान्तिरूपप्रकाशमानेन्दुचन्द्रिकया। स्मितं मृदुहास्यं । तस्य रुचिः कान्तिः स्मितरुचिः । सैव लसन्ती शोभमाना प्रकाशमाना वा ज्योत्स्ना चन्द्रप्रकाशः। तया। आबद्धशोभा विरचितसौन्दर्या । आबद्धा विरचिता शोभा सौन्दर्य यस्याः सा। आननश्रियो विशेषणमेतत् । स्मितरुचौ लसज्ज्योत्स्नारोपः स्मितरुचिधावल्यानिवन्धनः, धावल्यस्य स्मितरुचिचन्द्रिकयोः साधारणत्वात् । अस्तदोषा परित्यक्योपरागास्तंगमनादिदोषा, स्वोत्पत्तौ रात्रिसंबन्धविकला वा । ज्योत्स्ना तु अस्तदोषा न सम्भवत्येव, दोषामन्तरेण तदुत्पत्त्यसम्भवात् सूर्याचन्द्रमा प्रकाशयोः सहभावासम्भवदर्शनात् च । अतो ज्योत्स्नायाः दोषाश्रितजीवनात् , आननश्रियश्च दोषानाधिसत्वादाननश्रियस्तस्याः आधिक्यात्तत्कृतचन्द्रिकोपहाससामञ्जस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org