________________
द्वितीयः सर्गः]
२५७ दृष्ट्वा यस्याः प्रकृतिचतुरामाकृति सुन्दरीणां
त्रैलोक्येऽपि प्रथमगणनामीयुषी जातलजा। मन्ये लक्ष्मीः सपदि विसृजेदेव संलुच्य केशान् __ हस्ते लीलाकमलमलके बालकुन्दानुविद्धम् ॥ १०५॥
अन्वय:-- यस्याः त्रैलोक्ये अपि प्रथमगणना ईयुषी सुन्दरीणां प्रकृतिचतुरां आकृति दृष्ट्वा जातलजा लक्ष्मीः केशान् संलुच्य हस्ते लीलाकमलं, अलके बालकुन्दानुविद्धं सपदि विसृजेत् एव (इति) मन्ये ।।
दृष्टेत्यादि। यस्याः अलकापुर्याः बैलोक्ये अपि लोकत्रये अपि । त्रयो लोकाः एव त्रैलोक्य । 'भेषजादिभ्यष्टयण' इति स्वार्थे टयण् । प्रथमगणनां । प्रथमा उत्कृष्टा इति गणना प्रथमगणना । ताम् । ईयुषी गतवतीम् । 'वस्सदिण्श्रोः कसुः' इतीणः लिटः कसुः। क्रादिनियमादिटि द्वित्वम् । धुरूपस्य 'यणिणः' इति यणादेशः । चस्य 'कितीणो दीः' इति दीत्वम् । कसोरुगित्त्वात् 'क्युगिहन्नञ्चोः । इति स्त्रियां की। सुन्दरीणां अङ्गनानां प्रकृतिचतुरां स्वभावसुन्दरीं । अकृत्रिमसौन्दर्ययुक्तामित्यर्थः । प्रकृत्या स्वभावेन चतुरा मनोहारिणी प्रकृतिचतुरा। ताम् । 'प्रकृतिस्तु सत्त्वरजस्तमसां साम्यमात्रके । स्वभावामात्यपौरेषु लिङ्गे योनी तथाऽऽत्मनि इति विश्वलोचने । आकृतिः रूपं शरीरं वा । 'आकृतिः कायरूपयो : ' इति विश्वलोचने । दृष्टा विलोक्य । जातलज्जा सखातब्रीडा । 'मन्दाक्ष हीस्त्रपा ब्रीडा' इत्यमरः । जाता समुत्पन्ना लज्जा हीः यस्याः सा । लक्ष्मीः पद्मा कमलालया। श्रीरित्यर्थः । 'अवी-तन्त्री-तरी-लक्ष्मी-धी-ही-श्रीणामुणादिषु । अपि स्त्रीलिङ्गजातीनां सिलोपो न कदाचन' इति शर्ववर्मविरचितकौमारव्याकरणटीकायामुक्तम् । केशान् शिरोरुहान् संलुच्य उत्पाट्य हस्ते हस्ताग्रे धृतं लीलाकमलं क्रीडाकोकनदं शोभायुक्तमरविन्दं वा । लीला क्रीडा शोभा वा। 'लीला हावान्तरे स्त्रीणां केलो.खेलाविलासयोः' इति विश्वलोचने । लीलार्थ क्रीडाथै स्वसौन्दर्याभिवृद्ध्यर्थे वा कमलं पद्मं लीलाकमलम् । यद्वा लीलया शोभयोपलक्षितं कमलं लीलाकमलम् । अलके चूर्णकुन्तले । 'अलकञ्चूर्णकुन्तले' इति विश्वलोचने । बालकुन्दानुविद्धम् अर्धोन्मीलितमाध्यकुसुमविरचितरचनाविशेषं, कुन्दकुसुमहीबेरारचितरचनाविशेषं वा । अनुविद्धं अनुवेधः। 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । कुन्दः माध्यकुसुमवल्लरी। 'कुन्दो माध्ये पुमांश्चक्रे भ्रमौ निधिसुरद्विषोः' इति विश्व
पार्श्वभ्युदये....१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org