________________
२५६
पार्धाभ्युदये
नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥१०४ ॥
अन्वयः- सुधापङ्कधौतेषु ज्योत्स्नंमन्येषु स्वभूत्या अमरवसतिं व्याहसत्सु उद्यद्वलभिषु यस्याः हर्येषु वितन्वन्नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः स्त्रीसहायः निधिभुगधिः निर्विश्यन्ते ।
___ ज्योत्स्नम्मन्येष्वित्यादि । सुधापङ्कटौतेषु सुधासधर्मखनिजद्रव्यजानतशुभ्रवर्णरागीवशेषविनिमपितजम्बालधवलीकृतेषु । सुधेव सुधा । ' देवपथादिभ्यः' इतीवार्थस्य कस्योस् । ' युक्तवदुसि लिङ्गसङ्ख्ये' इति युक्तवालङ्गम् । तस्याः पङ्केन जम्बालेन कर्दमेन धौताः धवलीकृताः । तेषु । ज्योत्स्नम्मन्यषु । ज्योत्स्नामात्मानं मन्यन्ते इति ज्योत्स्नम्मन्याः । तेषु । 'खश् स्वस्य' इति स्वस्य सुपि वाचि मन्यतेः खश् तस्य खित्त्वात् 'खित्यझेः कृति ' इति ज्योत्स्नाशब्दस्यान्त्यस्याऽऽतः प्रत्वं 'मुमचः' इति मुमागमश्च । शीतकिरणकिरणकलापायमानेष्वित्यर्थः । स्वभूत्या स्वैश्वर्येण । 'भूतिर्मातङ्गशृङ्गारे भस्मसम्पत्तिजन्मसु' इति विश्वलोचने । स्वस्याऽऽत्मनः भूतिः सम्पत्तिः स्वभूतिः । तया । अमरवसतिं निर्जरनिवासं । स्वर्गभुवमित्यर्थः । व्याहसत्सु तदुपहास कुर्वत्सु । उद्यद्वलाभिषु प्रोन्नततदुपरिष्ठभागेषु । यस्याः अलकानगर्याः । हम्र्येषु प्रासादेषु । धनिनां गृहेष्वित्यर्थः । वितन्वन्नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रसरणशीलसार्वकालिककौमुदीप्रतिबद्धान्धतमसप्रवृत्तिसुभगाः । नित्या सार्वकालिकी चासौ ज्योत्स्ना कौमुदी च नित्यज्योत्स्ना । नितन्वती प्रसरणशीला चासौ नित्यज्योत्स्ना च वितन्वन्नित्यज्योत्स्ना। तया प्रतिहता प्रतिबद्धा तमोवृत्तिः अन्धकारप्रवृत्तिः तया रम्याः मनोहारिण्यः । अत्र ज्योत्स्नाया नित्यत्वमलकाया अमरवसतिनिर्विशेषत्वादित्यवसेयम् । प्रदोषाः रजनीमुखसमयाः। 'प्रदोषो रजनीमुखम्' इत्यमरः। स्त्रीसहायैः नारीसहचरैः । स्त्रियः नार्यः सहायाः सहचर्यः येषां ते । निधिभुगधिपैः यक्षाधिपतिभिः । निधीन्नवसङ्ख्याकान् भुञ्जन्तीति निधिभुजः। विप् । निधिभुजां अधिपाः अधिपतयः निधिभुगधिपाः । तैः । यद्वा निधिभुक अधिपः येषां ते निधिभुगधिपाः । तैः यक्षरित्यर्थः । निर्विश्यन्ते अनुभवगोचरतां नीयन्ते ।
In the mansions of which, white owing to their being covered with sticking plaster, considering themselves to be the moonlight (incarnate), laughing at the abode of gods with their prosperity, possessing topmost parts raised high up, the evenings, charming owing to the obstruction of the course of darkness by constantly spreading moonlight, are enjoyed by the lords of Yaksas along with their beloveds.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org