SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २५५ अन्वयः- यस्यां नित्यप्रहतमुरवाम्भोदनादैः प्रतीताः, चित्रपिच्छाः, नानारत्नः निर्मिताः जङ्गमाः निधयः इव च ते नित्यभास्वत्कलापाः केकोत्कण्ठाः भवनशिखिनः ताण्डवः विरचितलयं उच्चैः नृत्यन्ति । - यस्यामित्यादि । यस्यां अलकानगर्यो शम्बरासुरनिवासस्थानभूतायां नित्यप्रह तमुरवाम्भोदनादैः सतताभिहतमुरजानां अम्भोदनादसङ्कशनादैः । नित्यं प्रहताः अभिहताः नित्यप्रहता। नित्यप्रहताश्च ते मुरवाः मुरजाश्च नित्यप्रहतमुरवः । तेषां अम्भोदानां मेघानां नादाः गर्जितध्वनयः इव नादाः ध्वनयः। तैः । अम्भोदानां नादा इव नादाः । प्रतीताः प्रहृष्टाः । 'प्रतीतः सादरे ख्याते हृष्टे दृष्टे' विरक्षणे । प्रतीत एते ज्ञात च' इति विश्वलोचने। चित्रपिच्छाः मनोहरबहभाराः विविधवर्णबहभाराः वा । 'चित्रं तु कर्बुराद्भतयोस्त्रिषु' इति विश्वलोचने। चित्राणि अद्भतानि पिच्छानि कलापाः येषां ते चित्रपिच्छाः । नानारत्नः बहुप्रकारै रत्नैः निर्मिताः विहिताः जङ्गमाः सञ्चारिणः निधयः इव शेवधिरिव । 'निधिर्ना शेवधिः' इत्यमरः । च । चोऽत्र समुच्चये । ते भवनशिखिनः । नित्यभास्वत्कलापाः सततप्रकाशमानबहभाराः। नित्यं सततंभास्वन्तः प्रकाशयुक्ताः कलापाः बाणि येषां ते । केकोत्कण्ठाः केकाध्वन्युच्चारणार्थ उन्नमितकन्धराः । केकाभिः उद्गतः उन्नति प्राप्तः कण्ठः येषां ते । भवनशिखिनः गृहसहसानाः गृहमयूरा इत्यर्यः। ताण्डवैः नृत्यैः। 'ताण्डवं तृणनृत्ययोः' इाते विश्वलोचने। विरचितलयं । विरचितः लयः नृत्यादिसाम्यं यस्मिन् कर्मणि यथा स्यात्तता। 'लयो नृत्यादिसाम्ये स्याद्विनाशाश्लेषयोलयः' इति विश्वलोचने । उच्चैः अत्यर्थ नृत्यन्ति नर्तनं कुर्वन्ति । Wherein the domestic peacocks, highly pleased with the sounds, resembling the thunderings of clouds, of the drums beaten always, having multi-coloured (or wonderful ) plumages, resembling the moveable treasures produced by means of various jewels, possessing evershining plumages, having their necks raised up for the sake of giving out crackling notes, play Tandava dances very much in accordance with the time of music. .. ज्योत्स्नमन्येष्वमरवसतिं व्याहसत्सु स्वभूत्या - हर्येषुद्यद्वलभिषु सुधापङ्कधौतेषु यस्याः। निर्विश्यन्ते निधिभुगधिपैः स्त्रीसहायवितन्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy