________________
२५४
[पार्थाभ्युदये मित्यर्थः । तेषां कल्पवृक्षाणां नियोगः कर्तव्यं तन्नियोगः । तम् । शिक्षतेः कर्मत्वादिबत्रेत्यवधेयम् । शिक्षिताः इव पाठिता: इव । ताश्च आलिङ्गितकल्पद्रुमाः वनलताः वनोद्भवाः वलयः । नानाभेदं बहुप्रकारम् । नाना बहवः भेदाः प्रकाराः यस्य तत् । दिव्यं दिविभवम् । दिविभवत्वादतिसुन्दरमित्यर्थः । 'दिव्यं तु शपथे बाले लवङ्गकुसुमेऽपि च। दिव्याऽमलक्यां दिव्यं तु वल्गौ दिविभवेऽन्यवत् ' इति विश्वलोचने । प्रसूनं कुसुमम् । जातावेकवचनम् । तेन कुसुमानीत्यर्थः । वितरितुं प्रदातुं । विवरितुभिति पाठस्यासमञ्जसत्वात् वनलतानां कल्पवृक्षनियोग शिक्षितत्वादभिलषितप्रदातृत्वस्याभिप्रेतत्वाद्वितरितुमितिपाठपरिवर्तन कृतमिति विज्ञेयं सुधीभिः । अलं समर्थाः । 'अलं भूषणपर्याप्तिशक्तिवारणनिष्फले ' इति विश्वलोचने । यत्र च यस्यामलकायां च भृङ्गोपगीताः भृङ्गैः गुञ्जास्वरुपश्लोकिता हंसश्रेणीरचितरशनाः मरालमालाकाल्पितमेखलाकलापाः । हंसपङ्क्त्या चितपरिमण्डलाकाररचना इत्यर्थः । 'स्त्रीकट्या मेखला काञ्ची सप्तकी रशना तथा ' इत्यमरः । हंसानां मरालानां श्रेण्यः पङ्क्तयः हंसश्रेण्यः । ताभिः रचिताः कृताः रशनाः मण्डलाकाररचनाः यासु ताः। नित्यपद्माः नित्यं सततं ‘पद्मानि कमलानि यासां ताः । यद्वा नित्या क्षयविकला पद्मा लक्ष्मीः शोभा यासां ताः। नलिन्यः पद्मिन्यः। ताभिः वनलताभिः नानाविधदिव्यकुसुमप्रदाभिः स्पर्धामिव तुल्यबलविरोधरूपविप्रतिषेधमिव । तुल्यबलविरोधः विप्रतिषेधाख्यः स्पर्धा । ताम् । गमिताः प्रापिताः । यथा नानाभेददिव्यकुसुमवितरणक्षमाः वनलतास्तथता नलिन्योऽपीति भावः । हंसश्रेणीरचितरचनाः इति पाठे तु हंसश्रेणीभिः रचिताः विहिताः रचनाः नानाविधा आकृतयो यत्र ताः इत्यर्थो ग्राह्यः ।
Wherein the forest-creepers, taught as if the duty of those ( wishfulfilling trees ) owing to their being in the proximity of those (trees), are able to offer various beautiful flowers, and wherein the lotuscreepers, bearing lotuses always having girdle-like circular figures formed by the rows of swans, eulogised by bees, are made to stand .comparison with those ( creepers).
यस्यां नित्यप्रहतमुरवाम्भोदनादैः प्रतीता
नृत्यन्त्युच्चर्विरचितलयं ताण्डवैश्चित्रपिच्छाः। नानारत्नरिव च निधयो निर्मिता जङ्गमास्ते केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापाः ॥ १०३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org