________________
द्वितीयः सर्गः]
२५३ षड्ऋतुकुसुमानि वसन्तादिषड्ऋतुसञ्जातानि पुष्पाणि। षट्सु वसन्तादिषु ऋतुषु जातानि कुसुमानि षड्ऋतुकुसुमानि । एकशः एककालं । युगपदित्यर्थः । प्रदधुः वितरेयुः। तत् तस्मात् कारणात् । एते पादपाः कल्पद्रुमसहचराः कल्पवृक्षसहवासिनः । सह चरन्तीति सहचराः। करपद्रुमाणां सहचराः कल्पद्रुमसहचराः। कल्पद्रुमसहचारित्वादित्यर्थः । 'हेतौ सर्वाः प्रायाः' इति हेतौ वा । नूनं तर्के । संभावये इत्यर्थः । 'नूनं तर्के तु विख्यातं नूनं स्यादर्थनिश्चये' इति विश्वलोचने। तत्सधाणः कल्पद्रुमतुल्यस्वभावाः कल्पद्रुमतुल्याचाराः वा । तेषां कल्पद्रुमाणां सधर्माणः समानाचाराः समानस्वभावाः वा 'समानस्य धर्मादिषु' इति समानस्य सः । 'धर्मात्केवलादन् ' इत्यन् । 'धर्मः स्यादस्त्रियां पुण्ये धर्मो न्यायस्वभावयोः । उपमायां यमाचारवेदान्तेऽपि धनुष्यपि । यागे योगेऽप्यहिंसायां सोमपेऽपि क्वचिन्मतः' इति विश्वलोचने । सञ्जाताः सम्भूताः स्युः भवेयुः । सर्वर्तुजायमानकुसुमप्रदानात्तत्सहचारित्वाच्चैते पादपाः तत्तुल्याचाराः तत्तुल्यस्वभावा वा जाता इति तर्कयामीति भावः ।
As the trees, wherein, ever-flowering, noisy owing to the intoxicated bees, beautified by the sprouts, attained to prosperity, free from deterioration, give flowers blossoming in all the six seasons simultaneously, they, owing to their co-existence with wish-fulfilling trees, I think, possess properties similar to those of the wish-fulfilling trees.
तत्सान्निध्यादिव वनलताः शिक्षितास्तन्नियोगं __नानाभेदं वितरितुमलं ताश्च दिव्यं प्रसूनम् ॥ ताभिः स्पर्धामिव च गमिता यत्र भृङ्गोपगीता
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ॥ १०२॥ अन्वयः- यत्र तत्सान्निध्यात् तन्नियोगं शिक्षिताः इव ताः च वनलताः नानाभेद दिव्यं प्रसूनं वितरितुं अलम् । यत्र च भृङ्गोपगीताः हंसश्रेणीरचितरशनाः नित्यपद्माः नलिन्यः ताभिः स्पर्धा इव गमिताः ।
। तदित्यादि । यत्र अलकाभिधानयक्षराजराजधान्यां तत्सान्निध्यात् कल्पवृक्षसामीप्यात् । तेषां कल्पवृक्षाणां सान्निध्यं सामीप्यं तत्सान्निध्य । तस्मात् । कल्पवृक्षासामीप्याद्धेतोरित्यर्थः । तन्नियोगं कल्पवृक्षोवधेयं । अभिलषितप्रदानरूपं विधेयं कर्तव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org