SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २५२ [ पार्श्वाभ्युदये ८ कां विद्यायान्यत्रालकावत्सुखाभावान्नान्यत्र गमनं तत्रत्यैर्जनैरभिलषितं । अतस्ततोऽन्यत्र गमने सुखवञ्चितत्वप्रसङ्गादन्यत्र गमनात्तेषां भयं जायते । तस्माद्भयादित्यर्थः । अन्यत् किञ्चित् न चिन्त्यं न चिन्ता है । न चित्तोद्वेगजनकमित्यर्थः । चिन्तयितुं योग्यं चिन्त्यं । ‘तृज्व्याश्चार्हे ' इत्यर्थे व्यः । यत्र अलकायां मृत्युञ्जयानां मृत्युनिरोधानां । मृत्युंजयति निरुणद्धीति मृत्युञ्जयः । भृतृवृजिधारिदम्तप्सहः खौ ' इति खच् । 'मुमचः ' इति मुमागमः । वित्तेशानां यक्षाणां । ' वित्ताधिपः कुबेरः स्वात्प्रभो धनिकयक्षयोः ' इति शब्दार्णवे । यौवनात् तारुण्यात् अन्यत् भिन्नं वार्धक्यादिकं वयः अवस्थाविशेषः । वस्तु यौवने बाल्यप्रभृतौ विहगे वयाः ' इति विश्वलोचने । न खलु अस्ति नैव विद्यते । " For which, possessing all prosperities aspired after, Indra desires very much; the residents of which immediately forget the city of Indra (i. e. Amaravati, the capital of Indra ); in which nothing other than the fear of departure (from her) provokes anxiety, and wherein indeed no age other than youth exists in the case of the lords of wealth (i. e. Yaksas ), the conquerors of death. नूनं कल्पद्रुमसहचरास्तत्सधर्माण एते सञ्जाताः स्युः षड्ऋतुकुसुमान्येकशो यत्प्रदद्युः । अक्षीणद्धिं ध्रुवमुपगताः पल्लवोल्लासिता ये यत्रोन्मत्तभ्रमर मुखराः पादपा नित्यपुष्पाः ॥ १०१ ॥ अन्वय — यत्र अक्षीणद्धि ध्रुवं उपगताः पल्लवोल्लासिताः उन्मत्तभ्रमरमुखराः नित्यपुष्पाः ये पादपाः यत् षड्ऋतुकुसुमानि एकशः प्रद्युः (तत्) एते कल्पद्रुमसहचराः नूनं तत्सधर्माणः सञ्जाताः स्युः । नूनमित्यादि । यत्र अलकापु अक्षीणद्धिं क्षयविकलां समृद्धिं ध्रुवं निश्चयेन उपगताः प्राप्ताः पल्लवोल्लासिताः किसलयैः समुपजातसौन्दर्याः । पल्लवे: किसलयैः उल्लासिताः सञ्जातशोभाः उन्मत्तभ्रमरमुखराः पुष्परस सेवनजनितानन्दभ्रमरवाचालिताः । उन्मत्ताः मधुरसपानमत्ताश्च ते भ्रमराः मधुलिहश्च उन्मत्तभ्रमराः । तैः मुखराः वाचालिताः । उन्मत्तभ्रमरनिकराः इति पाठसङ्ग्रहे तु उन्मत्ताः मधुरसपानसंतुष्टाः भ्रमराणां निकराः समूहाः यत्र तैः इति विग्रहः । नित्यपुष्पाः सदाकुसुमाः 1 नित्यं पुष्पाणि येषां ते नित्यपुष्पाः । ये पादपाः ये वृक्षाः । यत् यस्मात् कारणात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy