________________
द्वितीयः सर्गः]
२५१
प्रणयकलहादन्यत्र प्रेमकलहं विमुच्यान्यस्मिन्विषये विप्रयोगोपपत्तिः अपि विरहप्राप्तिरपि नास्ति न विद्यते ।
Wherein not a single man indeed is found begging, wretched and deprived of wealth owing to the existence of the [ nine ] treasures [ of Kubera ] fulfilling all desires; also there is no possibility of any separation except in cases of love-quarrels, as righteousness, having. docorated her, the beautiful one, actually inhabits her.
यस्यै शक्रः स्पृहयतितरामिष्टसर्द्धिभाजे. __यत्रासीनाः शतमखपुरी विस्मरन्त्येव सद्यः। नान्यीचन्त्यं विहरणभयाद्यत्र मृत्युञ्जयानां
वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ १०० ॥
अन्वय :- इष्टसर्वद्धिभाजे यस्यै शक्रः स्पृहयतितरां; यत्र आसीनाः सद्य: एव शतमखपुरी विस्मरन्ति; यत्र विहरणभयात् अन्यत् न चिन्त्वं; यत्र मृत्युंजयानां वित्तेशानां यौवनात् अन्यत् वयः न खलु अस्ति ।
यस्यामित्यादि । इष्टसर्वर्द्धिभाजे अभिलषितनिखिलैश्वर्ययुक्तायै । सर्वाश्च ताः ऋद्धयश्च सर्वर्द्धयः । इष्टाः अभिलषिताः प्रियाः वा च ताः सर्वर्द्धयश्च इष्टसर्वर्द्धयः । ताः भजति इति इष्टसर्वार्द्धभाक् । तस्यै। ' भजो ण्विः' इति यिः । यस्यै अलकायै । 'स्पृहेप्सिंत' इति स्पृहेः कर्मणः वैकल्पिकी सम्प्रदानसज्ञा । सम्प्रदानत्वाच्चाप् । शक्रः इन्द्रः । 'जिष्णुर्लेवर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्राभिद्वजी वासवो वृत्रहा वृषा' इत्यमरः । स्पृहयतितरां अत्यर्थमभीप्सति । 'इन्मिङिझादामद्रव्ये' इति झान्तान्मिङः आम् । अत्र प्रकृष्टार्थे झः । यत्र अलकायां आसीनाः स्थितिमन्तः जनाः सद्यः एव शीघ्रमेव शतमखपुरी इद्रनगरी । शतमखस्येन्द्रस्य पुरी शतमखपुरी अमरावती । ताम् । विस्मरन्ति स्मृतिविषयादपनयन्ति । लुप्ततस्मृतयः भवन्तीत्यर्थः । यत्र अलकायां विहरणभयात् अलकां विहायान्यत्रानभिलषिताद्गमनाजायमानाद्भयात् विहरणं अलकां विहायान्यत्र गमनं । तस्माद्यद्भय तस्मात् । यद्वा विहियतेऽत्रेति विहरणं । मार्गः इत्यर्थः । तत्र यद्भयं भयस्थानं तस्मात् 'करणाधारे चानट्' इत्याधारार्थेऽनट् ' । बिभ्यतेऽत्रेति भयं । भवस्थानमित्यर्थः ।। 'पुंखो घः प्रायः' इत्याधारार्थे घः । विहरणाद् भयं विहरणभयं । तस्मात् । एनाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org