SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २५० [पार्धाभ्युदये प्रियजनंता । तया । सङ्गमाशानुबन्धात् मीलनाशाबन्धात् अन्यः बन्धः अन्यबन्धनं न नास्ति । इष्टसंयोगसाध्यात् प्रियसंयोगासिद्धात् । इष्टैः प्रियैः संयोगः सम्बन्धः इष्टसंयोगः । सः साध्यः असिद्धः यस्मिन् तस्मात् । प्रियतमसंयोगस्यासिद्धत्वान्मदनज्वरोत्पत्तेर्जायमानात्तापादित्यर्थः । कुसुमशरजात् मदनाज्जाय. . मानात् तापात् अन्यः भिन्नः तापः न । मदनजन्यतापादन्यस्य तत्रासम्भवः इति भावः। The residents of which are subservient to none other than him (or her ) who overlords her (or his ) heart, are not distressed by any sort of disappointment other than that arising from humiliation caused by the beloved ones, have no ties other than the one of hope for their union with the assemblage of their beloved ones, h torments other than the one arising from the flower-arrowed one (i. e. the god of love ) brought about by the union yet to be effected with their beloved ones ( or by the absence of their union with their beloved ones). यत्राकल्पानिधिषु सकलानेव सम्पादयत्सु . नार्थी कश्चिन्न खलु कृपणो नापि निःस्वो जनोऽस्ति । धर्मः साक्षानिवसति सती यामलङ्कृत्य यस्मा नाप्यन्यत्र प्रणयकलहाद्विप्रयोगोपपत्तिः ॥ ९९ ॥ अन्वयः- यत्र निधिषु सकलान् एव आकल्पान् सम्पादयत्सु कश्चित् जनः अर्थी नास्ति, न खलु [ कश्चित् ] कृपणः अस्ति, नाऽपि [ कश्चित् ] निःस्वः [ अस्ति ]; यस्मात् यां सती अलङ्कत्य धर्मः साक्षात् निवसति [तस्मात् तत्र ] प्रणयकलहात् अन्यत्र विप्रयोगोपपत्तिः अपि नाऽस्ति । यत्रेत्यादि । यत्र अलकायां निधिषु नवसङ्ख्याकेषु निधानेषु सकलानेव निखिलानेव आकल्पान् सङ्कल्पान् । अभिलाषानित्यर्थः । सम्पादयत्सु पूरयत्सु कश्चिज्जनः कश्चन जनः अर्थी मार्गणः । याचकः इत्यर्थः । नास्ति न विद्यते । न खलु न हि कश्चिज्जनः कृपणः दीनः अस्ति विद्यते । नाऽपि नैव कश्चिज्जनः निःस्वः निर्धनः । 'निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्मतोऽपि सः' इत्यमरः । अस्ति विद्यते । यस्मात् यतः कारणात् यां अलकां सती शोभनां अलङ्कृत्य भूषयित्वा धर्मः नीतिधर्मः साक्षात् प्रत्यक्षेण निवसति आवसति तस्मात् कारणात् तत्र पुर्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy