SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २४९ अलकायां कमलनिलया कमलालया लक्ष्मीः अध्यास्ते निवसति । 'कर्मैवाघेः शीत्य सः' इत्यधिपूर्वस्य शीङः आधारस्य कर्मसंज्ञत्वात् 'कर्मणीप्' इति इप् । यां च यस्यामलकायां च प्रजानां तन्निवासि जनानां सम्पदः श्रियः। अध्यासते इति शेषः । अथवा 'अर्थवशाद्विभक्त्यादिविपरिणामः' इति न्यायेन बहुवचननिर्देशः। यत्र अलकायां नयनसलिलं नेत्राश्रुजलं आनन्दोत्थं आनन्दजनितं न अन्यैः निमित्तैः नान्यनिमित्तजनितं । आनन्दव्यतिरिक्तनिमित्तजनितमश्रु तत्रत्यजननयनाभ्यां न विगलति । तत्रत्याः जनाः अमन्दानन्दकन्दलितस्वान्ता एवेति भावः। Which, I think, has no other standard of comparison in the whole of the world even owing its being created by the creator having his mind centred on all the standards of comparisons; wherein resides the lotus-aboded one (i. e. Laxmi) and wherein the treasures of the subjects exist, wherein tears arise in the eyes on account of joy and not on account of any other causes. यत्रत्यानां न परपरता चित्तभर्तुः परत्र नान्यो भङ्गः प्रणयिनि जने मानभंग विहाय । नाऽन्यो बन्धः प्रियजनतया सङ्गमाशानुबन्धा न्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ॥९८॥ अन्वयः-- यत्रत्यानां चित्तभर्तुः परत्र परपरता न, प्रणयिनि जने मानभङ्ग विहाय अन्यः भङ्गः न, प्रियजनतया सङ्गमाशानुबन्धात् अन्यः बन्धः न, इष्टसंयोगसाध्यात् कुसुमशरजात् (तापात् ) अन्यः तापः न । _यत्रत्यानामित्यादि । यत्रत्यानां अलकापुरीनिवासिनां । यत्र भवः यत्रत्याः । 'कामेहाविस्तस्त्रात्यच' इति त्यच् । चित्तभर्तुः मनोहरात् । चित्तं मनः विभर्ति आकर्षतीति चित्तभर्ता । मनोहरात् मनोहारिण्याश्चेत्यर्थः। परत्र अन्यत्र । मनोहरं पुरुषं मनोहारिणी स्त्रियं च विमुच्यान्यत्र । परपरता परवशता न नास्ति । प्रणयिनि जने प्रियतमजनविषये मानभग अभिमानच्युतिं विहाय विमुच्य अन्यः परः भगः अभिमानध्वंसः न नास्ति । अलकावासिनां प्रियतमजनकृतः एव मानभङ्गः, नान्यनिमित्तः इत्यर्थः । प्रियजनतया प्रियजनसमूहेन । जनानां समूहः जनता । 'गजग्रामजनबन्धुसहायात्तल' इति समूहार्थे जनशब्दात्तल् । प्रिया चासौ जनता च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy