SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २४६ [पार्धाभ्युदये अन्वयः-वत्र उद्याने कुसुमितलतामण्डपेषु स्थितानां दम्पतीनां विततमधुपैः आत्तसम्भोगगन्धै : नीलोत्तसेः शय्योपान्तः कर्णविभ्रंशिभिः क्लप्तच्छेदैः कनककमलैः च निधुवनपदं सूच्यते । यत्रेत्यादि । यत्र अलकानगर्यो उद्याने आरामे कुसुमितलतामण्डपेषु पुष्पितवल्लीविरचितगृहेषु। कुसुमिताः सञ्जातपुष्पाः । ' तदस्य सञ्जातं तारकादिभ्य इतः' इतीतः । कुसुमिताः सखातपुष्पाश्च ताः लताः वल्लयश्च कुसुमितलताः । तासां मण्डपाः गृहाणि । तेषु । स्थितानां स्थितिमतां दम्पतीनां । जम्पतीनां । कामुककामुकीयुगलानामित्यर्थः । विततमधुपैः विसृत्वरभ्रमरैः । वितताः विशेषेण तताः विसृत्वराः मधुपाः भ्रमराः यत्र तैः । आत्तसम्भोगगन्धैः गृहीतसम्भोगकालप्रयुक्तगन्धद्रव्यैः । आत्ताः गृहीताः सम्भोगगन्धाः यैः ते। तैः । सम्भोगस्य गन्धाः गन्धद्रव्याणि सम्भोगगन्धाः । सम्भोगकालप्रयुक्तगन्धद्रव्याणीत्यर्थः । नीलोत्तंसैः नीलोत्पलरचितशिरोभूषणैः । नीलाः नीलोत्पलकल्पितत्वान्नीलवर्णाः उत्तंसाः शिरोभूषणानि यत्र । तैः । शय्योपान्तैः शयनीयसमीपप्रदेशैः कर्णविभ्रंशिभिः। कर्णाभ्यां विभ्रश्यन्तीति कर्णविभ्रंशिनः । तैः । क्लप्तच्छेदैः कृतखण्डः। क्लताः कृताः छेदाः खण्डाः येषां ते । तैः । कनककमलैः सुवर्णवर्णसरोजैः । कनकानीव कनकानि । कनकानि सुवर्णवर्णत्वात्तत्तुल्यानि च तानि च कमलानि च कनककमलानि। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । चः समुच्चये। यद्वा कनकविनिर्मितकमलानीव कमलानि कनककमलानि । निधुवनपदं मैथुनोपसेवनस्थानं सूच्यते ज्ञाप्यते । Where in the garden, the abode of sexual enjoyment of the couples resting in bowers of flowery creepers is pointed out by the skrits of their beds possessing blue ornaments worn on the crowns of their heads, scented by the perfumes used at the time of sexual enjoyment, having bees spread all over, and by lotuses, possessing gold-like colour slipped off their ears and reduced to pieces. मन्दाकिन्यास्तटवनमनु क्रांडतां दम्पतीनां पुष्पास्तीर्णाः पुलिनरचिता यत्र सम्भोगदेशाः। संसूच्यन्ते बहुतरफलैः कुङ्कुमारक्तशोभै. मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारैः ॥९५ ॥ अन्वयः- यत्र कुङ्कुमारक्तशोभैः बहुतरफलैः, मुक्ताजालैः, स्तनपरिसरच्छि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy