SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २४५ ___ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः॥९३ ॥ - अन्वयः- यत्र मनोवल्लभे चिरयति रात्रिसम्भोगहेतोः स्खलितविषमं गच्छन्तीनां कामिनीनां गत्युत्कम्पात् अलकपतितैः, विलसितैः सौभाग्याङ्कः इव मन्दारपुष्पैः राजमार्गाः आतताः संलक्ष्यन्ते । संलक्ष्यन्ते इत्यादि। यत्र अलकापुर्वी मनोवल्लभे मनःप्रिये ! मनसः हृदयस्य वल्लभः। तस्मिन् । प्रियतमे इत्यर्थः। चिरयति कालयापनं कुर्वति । सतीतिशेषः। 'यद्भावाद्भावगतिः' इति ईप् । 'मृदो ध्वर्थे णिज्बहुलं' इति णिच् करोत्यर्थे । चिरं करोति चिरयति। रात्रिसम्भोगहेतोः निशामैथुनोपसेवनार्थम् । रात्रौ क्रियमाणः सम्भोगः निधुवनसेवनं रात्रिसम्भोगः। तस्य हेतोः। तदर्थमित्यर्थः। हेतुशब्दप्रयोगादत्र का। स्खलितविषमं विक्लवगतिविषमं । स्खलितेन विक्लवगत्या विषमं अश्लक्ष्णं यथा स्यात्तथा । गच्छन्तीनां प्रयान्तीनां कामिनीनां रिरंसुस्त्रीणां । वृषस्यन्तीनामित्यर्थः। गत्युत्कम्पात् गतिजनितवेपथोः अलकपतितैः चूर्णकुन्तलगलितैः । 'अलकाचूर्णकुन्तलाः' इत्यमरः। विलसितैः विशेषेण शोभमानैः मङ्गलैः वा सौभाग्याङ्कः इव सुभगत्वचिह्नः इव। 'अङ्को रेखायां चिह्नलक्ष्मणोः' इति विश्वलोचने । सौभाग्यस्य सुभगत्वस्य अङ्कभूतानि चिह्नभूतानि सौभाग्याङ्कानि । तैः । ' सौभाग्यं सुभगत्वे स्याद्योगभेदे पुमानयम्' इति विश्वलोचने । मन्दारपुष्पैः देवतरुविशेषकुसुमैः। 'पञ्चैते देवतरवो मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरः । राजमार्गाः नरेन्द्राध्वानः आतताः संस्तृताः । व्याप्ताः इत्यर्थः । संलक्ष्यन्ते सन्दृश्यन्ते । Wherein the royal roads are found covered over with the beautiful Mandara flowers resembling the signs of the blessed state of wifehood, fallen down from their curely hair owing to the agitation caused by the gait of the love-lorn women going unfairly owing to their frequent stumbles for the sake of nocturnal sexual enjoyment on finding their lovers delaying. यत्रोद्याने कुसुमितलतामण्डपेषु स्थितानां शय्योपान्तैर्विततमधुपैरात्तसम्भोगगन्धैः । नीलोत्तंसैनिधुवनपदं सूच्यते दम्पतीनां - क्लुप्तछेदैः कनककमलैः कर्णविभ्रंशिभिश्च ॥ ९४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy