SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २४४ [ पार्धाभ्युदये लवस्यन्दिनः, निष्कुटानां धौतोपान्ताः, भवनवलभेः प्रस्तुताः चन्द्रकान्ताः रात्रौ अपथके कामुकीनां श्रमं व्यालुम्पन्ति । तासामित्यादि । यस्यां अलकानगर्या तासां युवतीनां उपवरे रहसि । 'उपहरं समीपे स्याद्रहोमात्रेऽप्युपह्वरम्' इति विश्वलोचने । पाद्यं पादोदकं । पादार्थमुदकं पाद्यं । 'पाद्यार्थे' यत्यान्तो निपातः ये च पादस्य पद्भावाभावाः। 'पाद्यं पादाय वारिणी' इत्यमरः । वितरितुं इव दातुमिव इन्दुपादाभिवर्षात् शीतरश्मिरश्म्यभिवृष्टेः। इन्दोश्चन्द्रमसः पादाः रश्मयः इन्दुपादाः। 'पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितौ। शैलप्रत्यन्तशैले ना' इति विश्वलोचने। तेषां अभिवर्षः वर्षणं । तस्मात् । 'वर्षमस्त्री वर्षणेऽन्दे जम्बूद्वीपे घने पुमान्' इति विश्वलोचने । स्फुटजललवस्यन्दिनः निर्मलसलिलकणवर्षकाः। स्फुटाः निर्मलाश्च ते जललवाः सलिलकणाः स्फुटजललवाः । तान् स्यन्दन्ते स्रावयन्तीति स्फुटजललवस्यन्दिनः । निष्कुटानां ' गृहोद्यानानां । 'निष्कुटस्तु गृहोद्याने स्यात्केदारकपाटयोः' इति विश्वलोचने । धौतोपान्ताः प्रक्षालितसमीपदेशाः । धौताः प्रक्षालिताः उपान्ताः समीपदेशाः यैः ते । भवनवलभेः प्रासादोपरिष्ठभागस्य । प्रासादोपरिष्ठभागनिबद्धाः इत्यर्थः । 'गोपानसी तु वलभी छादने वक्रदारुणि' इत्यमरः । प्रस्तुताः प्रशस्ताः चन्द्रकान्ताः चन्द्रकान्तमणिपाषाणाः रात्रौ निशायां अपथके राजमार्गादन्यस्मिञ्जनताशाते पथि । 'चोरवाट' इति महाराष्ट्रयाम् । कामुकीनां जनितनिधुवनसेवनाभिलाषाणां । कामसन्तप्तानामित्यर्थः । 'कुण्डगोणस्थलभाजनागकुशकामुककबरकटात् पात्रावपनाकृत्रिमाश्राणास्थूलायसरिरंसुकेशवेशश्रोणौ' इति कामुकात् स्त्रिया ही। कामुकी रिरंसुरित्यर्थः । 'वृषस्यन्ती तु कामुकी' इत्यमरः । श्रमं मार्गायासं । व्यालुम्पन्ति परिहरन्ति । Where the excellent moon-stones of the roofs of the mansions, exuding pure drops of water owing to the downpour of rays of the moon (and so ) washing off the regions in the immediate proximity of the pleasure-gardens near the mansions for as it were offering water for washing feet in secret, destroy completely at night the fatigue of the passionate women on the untrodden path. संलक्ष्यन्ते चिरयति मनोवल्लभे कामिनीनां गच्छन्तीनां स्खलितविषमं रात्रिसम्भोगहेतोः। सौभाग्याङ्करिव विलसितरातता राजमार्गाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy