SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २४३ एकेत्यादि । यत्र अलकायां निशीथे अर्धरात्रे। 'अर्धरात्रनिशीथो द्वौ द्वौ यामप्रहरौ समौ' इत्यमरः । त्वत्संरोधापगमविशदैः त्वत्कृतप्रतिबन्धविगमनशुभैः। स्वसंरोधः त्वत्कृतः प्रतिबन्धः। तस्य अपगमः दूरोत्सरणं । तेन विशदैः निर्मलैः शुभैर्वा । इन्दुपादैः चन्द्रकिरणैः । 'पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितौ । शैलप्रत्यन्तशैले ना' इति विश्वलोचने । तमास तमिस्ने । 'तमिस्र तिमिरं तमः' इत्यमरः । अपास्ते परिहृते । एकाकिन्यः असहायाः। 'एकादाकिश्वासहाये' इत्यसहायार्थे एकशब्दादाकिन् । मदनविवशाः कामातुराः। विषयवासनाधीनमनस्काः इत्यर्थः । नीलवासोऽवगुण्ठाः नीलवर्णवनावगुण्ठितशरीराः। नीलं नीलवर्ण वासः वस्त्रं । नीलवासः एव अवगुण्ठः शरीरावगुण्ठनसाधनं यासां ताः नीलवासोऽवगुण्ठाः। * वासस्तु वसने ख्यातमोष्ठे दशनपूर्वकं' इति विश्वलोचने। अवगुण्ठ्यतेऽनेनेति अवगुण्ठः । 'पुखौ घः प्रायः' इति करणे घः पुंसि सज्ञायाम् । प्राप्ताकल्पाः परिहिताभरणाः । प्राप्ताः लब्धाः परिहिताः आकल्पाः आभरणानि याभिः । ताः। 'आकल्पवेशो नेपथ्यम्' इत्यमरः। रमणवसतीः प्रियतमनिवासस्थानानि । यातुकामाः गन्तुमनसः। 'सम्तुमोर्मनःकामे' इति तुमो मकारस्य खम् । तरुण्यः युवत्यः। उत्पथेभ्यः उन्मार्गेभ्यः । कापथान्विमुच्येत्यर्थः । विपणीः पण्यवीथिकाः। 'विपणिस्तु स्त्रियां पण्यवीथ्यामापणपण्ययोः' इति विश्वलोचने। आश्रयन्ति प्राप्नुवन्ति । प्रविशन्तीत्यर्थः। When young ladies, desirous of going alone to the abodes of their lovers at midnight, wearing ornaments, concealing by wrapping themselves in black garments, pining with love, would resort to the bazar roads giving up the ways deviating from the right paths when the darkness would be dispelled by the rays of the moon brilliant owing to the removal of the obstruction caused by you. तासां पाद्यं वितरितुमिवोपहरे निष्कुटानां __ धौतोपान्ता भवनवलभेरिन्दुपादाभिवर्षात् । यस्यां रात्रौ श्रममपथके प्रस्तुताः कामुकीनां व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ९२ ॥ अन्वयः-- यस्यां तासां उपह्वरे पाद्यं वितरितुं इव इन्दुपादाभिवर्षात् स्फुटजल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy