SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २४२ [ पार्श्वाभ्युदये 6 " मौलिः । यद्वा विरचिताः लिखिताः जटाः वृक्षशाखाकारचित्राणि यस्यां सा विरचितजटा । ' उस् रचार्थध्वजचित्रे ' इति चित्रकर्मण्यभिधेये वर्तमानाज्जटाशब्दात्कस्योस् । युक्त वदुखि लिङ्गसङ्ख्ये ' इति जटाशब्दप्रकृतिवलिङ्गम् । पुंवद्यजातीयदेशये । इति पुंवद्भावाभावः जटाशब्दस्य नित्यस्त्रीलिङ्गत्वादुक्तपुंस्कत्वाभावात् । सा चासौ मोलिः किरीटं च विराचितजटामौलिः । तां भजते इति विरचितजटामौलिभाक् । तस्य । ‘भजो ण्विः' इति ण्विः। अनतिचरतः स्वमार्गातिक्रममकुर्वतः अनतिशीध्यायिनः वा । इन्दोः चन्द्रमसः । नातिसान्द्रं पतन्तः विरलविरलं प्रसृमराः अमलाः शुभ्राः । अमला कमलायां स्यादमलं विशदेऽभ्रके ' इति विश्वलोचने । तन्तुजालाव लम्बाः तन्तुजालेन तन्तुविनिर्मितानायद्वारेण प्रविशन्तः तन्तुजालवदवलम्बमानाः वा । तन्तूनां जालमा नायः तन्तुजालं । तेन अवलम्बः प्रवेशः येषां ते । यद्वा तन्नूनां जालं समूहः तन्तुजालम् । तदिव अवलम्बः आलम्बनं तन्तुजालावलम्बः । सोऽस्त्येषामिति तन्तुजालावलम्बाः । ' ओभ्रादिभ्यः' इति मत्वर्थीयोऽत्यः । मयूखाः किरणाः । 'किरणोऽ C मयूखां शुगभस्तिघृणिरश्मयः' इत्यमरः । दम्पतीनां जायापतीयुगलानां । जायापती दम्पती । राजदन्तादित्वाज्जायाशब्दस्य जंदमित्येतावादेशौ । सुरतजनितां निधुवनविधिजनितां अङ्गलानिं शरीरश्रमं सद्यः शीघ्रं विलयं नेतुं विनाशयितुं शक्नुयुः समर्थाः भवेयुः । Wherein the bright rays, penetrating through nets of interlooping threads (or hanging like a mass of threads), propagating not very densly, of the moon, going not out of her right way, the lord of night, occupying the crown, put on the head having hair collected like matted hair, of the husband of the white-complexioned lady (i. e. of the lord of the north-east direction ), would be able to remove at once the bodily fatigue of the couples, caused by sexual enjoyment. एकाकिन्यो मदनविवशा नीलवासोवगुण्ठाः प्राप्ताकल्पा रमणवस्तीर्यातुकामास्तरुण्यः । यत्रापास्ते तमसि विपणाराश्रयन्त्युत्पथेभ्यस्त्वत्संरोधापगमविशदेरिन्दुपादैर्निशीथे ॥ ९१ ॥ अन्वयः यत्र निशीथे त्वत्संरोधापगमविशदैः इन्दुपादैः तमसि अपास्ते एकाकिन्यः मदनविवशाः नीलवासोवगुण्ठाः प्राप्ताकल्पाः रमणवसतीः यातुकामाः तरुण्यः उत्पथेभ्यः विपणीः आश्रयन्ति । Jain Education International -- For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy