SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २४१ क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु' इति विश्वलोचने। बद्धोत्कण्ठस्तनतटपरामृष्टवर्णाविकार्णाः सम्पीडितोद्गतपार्श्वदेशस्तनतटघृष्टमौक्तिकैः समन्ताद्विकीर्णाः । बद्धौ सम्पीडितौ च तौ उत्कण्ठौ उद्गतसमीपस्थपरिधिप्रदेशौ च बद्धोत्कण्ठौ। तौ च तो स्तनतटौ च । ताभ्यां परामृष्टाः घृष्टाः वर्णाः स्तनतट द्वयान्तरालस्थितमालामौक्तिकाः । तैः आ समन्ताच्छय्यायां विकीर्णाः प्रसृताः। यद्वा तादृशस्तनटसङ्घर्षजनिताङ्गरागसंश्लेषा वर्णाः मौक्तिकाः यस्ते। तादृशाभ्यां स्तनतटाभ्यां हेतुभूताभ्यां परामृष्टाःजनितोपदेहीकृताः वर्णों: मौतिकाः यैः ते। विकीर्णा सर्वतः प्रसृताः । अङ्गरागाः प्रसाधनविलेपनानि । 'समालम्भोऽङ्गराग प्रसाधनविलेपनम्' इति धनञ्जयः । सम्भोगान्ते निधुवनविध्यवसाने उपचितं वृद्धिङ्गतं श्रमं आयासं सूचयन्ति पिशुनयान्त । The scented cosmetics, scattered ( here and there in their beds ) owing to the pearls rubbing against their breasts having their circumjacent parts raised up owing to their being pressed by their husbands embracing them ), turn into mud by the drops of sweat exuding on account of the efforts, moistening interior parts of their beds, suggest the exhaustion, increased at the end of their sexual enjoyment, of the women, closely embraced in the arms of their husbands. यस्यामिन्दोरनतिचरतो नातिसान्द्रं पतन्तो - गौरीभतुर्विरचितजटामौलिभाजो मयूखाः नेतुं सद्यो विलयममलाः शक्नुयुर्दम्पतीना मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ॥९०॥ । अन्वयः-- यस्यां गौरीभर्तुः विरचितजटामौलिभाजः अनतिचरतः इन्दोः नातिसान्द्रं पतन्तः अमलाः तन्तुजालावलम्बाः मयूखाः दम्पतीनां सुरतजनितां अङ्गग्लानि सद्यः विलयं नेतुं शक्नुयुः । यस्यामित्यादि । यस्यां अलकापुर्यां गौरीभर्तुः निशानाथस्य । 'गौरी तु पार्वतीनमकन्ययोर्वरुणस्त्रियां । नदीभिद्यामिनीपिङ्गारोचनीमाप्रियङ्गुषु' इति विश्वलोचने । यद्वामेदिनीपतितुल्यस्येशानदिगधिपतेः । यद्वा गौरी गौरवर्णेशानदिगिन्द्रपत्नी । तस्याः भर्तुः । ' देवपादिभ्यः' इतीवार्थस्य कस्योस् । ' युक्तवदुसि लिङ्गसङ्ख्थे । विरचितजटामौलिभाजः। विशेषेण रचिता निबद्धा चासो जटा च विरचितजटा । मूर्धापरिनिबद्धग्रन्थिरित्यर्थः । विचितजटेव मौलिः किरीटं विरचितजटा पार्श्वभ्युदये....१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy