SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये प्रक्षोभजनितोल्लोलकल्लोलानित्यर्थः । उदधीन् सागरान् । रत्नोदशुप्रसररुचिरैः रत्नोद्गतकिरणविस्तारमनोहरैः । रत्नेभ्यः उद्गताः अंशवः किरणाः रत्नोदंशवः । तेषां प्रसरेण विस्तारेण रुचिराः कान्तिमन्तस्तेजस्विनः । तैः । भित्तिभागैः भित्तिदेशैः कुलाद्रीन् कुलपर्वतान् तैस्तैः नानाविधैः विशेषैः धर्मैः त्वां भवन्तं तुलायितुं समीकर्ते प्रासादाः हर्म्याणि अलं पर्याप्ताः । समर्थाः इत्यर्थः । सन्तीति शेषः । २४० Wherein the mansions are capable of establishing similarity with masses of autumnal clouds with the lofty parts of their uppermost divisions white like snow, with oceans with their waters dashing against their shores (or with the oceans with tides, having their waters rising high up) with the deep sounds of the musical instruments,, with the principal mountains with the parts of their walls shining with the spread of the rays emitting from the gems [and] with you with their various special features. पङ्कीभूताः श्रमजलकणैराद्रत प्रस्तरान्ता बद्धोत्कण्ठस्तनतटपरामृष्टवर्णाविशीर्णाः । सम्भोगान्ते श्रममुपचितं सूचयन्त्यङ्गरागाः यत्र स्त्रीणां प्रियतमभुजेोच्छसि तालिङ्गितानाम् ॥ ८९ ॥ अन्ययः: - यत्र प्रियतमभुजोच्छा सितालिङ्गितानां स्त्रीणां श्रमजलकणैः पङ्कीभूताः आद्रितप्रस्तरान्ताः बद्धोत्कण्ठस्तनतट परामृष्टवर्णाविशीर्णाः अङ्गरागाः सम्भोगान्ते उपचितं श्रमं सूचयन्ति । पङ्कीभूताः इत्यादि। यत्र अलकापु प्रियतममुजोच्छ्रासितालिङ्गितानां स्वप्रियतमबाहुपाशदृढीकृतपरिष्वङ्गाणां । प्रियतमानां भुजाः बाहवः प्रियतमभुजाः । तैः उच्छ्राखितानि आप्यायितानि दृढीकृतानि आलिङ्गितानि आलिङ्गनानि यासां ताः । तासाम् । स्त्रीणां योषितां श्रमजलकणैः श्रमजनितस्वेदजलबिन्दुभिः । अत्र श्रमो निधुवनविधिनिबन्धनः इत्यवसेयम् । पङ्कीभूताः पङ्कभावं गताः । अपङ्काः पङ्काः सम्पन्नाः पङ्कीभूताः । — कृभ्वस्तिञ्योगे ऽतत्तत्त्वे सम्पत्तरित्त्विः' इति च्विः । च्वावीत्वम् । आद्रित प्रस्तरान्ताः । आर्द्रिताः आर्द्राः कृताः । मृदो ध्वर्थे णिज्बहुलम्' इति . णिच् । क्तश्च । प्रस्तरान्ताः शय्यादेशाः । प्रस्तराणां शब्दानां अन्ताः देशाः प्रस्तरान्ताः । प्रस्तृणातीति प्रस्तरः । शय्येत्यर्थः । ' अन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतं ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy