SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २४ न्नसूत्रेः हारैः च मन्दाकिन्याः तटवनं अनु क्रीडतां दम्पतीनां पुष्पास्तीर्णाः पुलिनरचिताः सम्भोगदेशाः संसूच्यन्ते । मन्दाकिन्या इत्यादि । यत्र अलकाभिधानायां कुरराजधान्यां कुङ्कुमारक्तशोभैः काश्मीरजन्मवद्रक्तकान्तिभिः । कुङ्कुमं काश्मीरजन्म । कुङ्कुमस्य आरक्ता रक्तवर्णा शोभेव शोभा कान्तिर्येषां तैः । बहुतरफलैः विपुलतरफलैः । मुक्ताजालैः मुक्तामाणावरचितैः आनायैः । स्तनपरिसरच्छिन्नसूत्रैः उरोजविस्तारभग्नतन्तुभिः । स्तनयोः उरोजयोः परिसरः विस्तारः स्तनपरिसरः । तेन च्छिन्नानि सूत्राणि तन्तवः येषां ते । तैः । हारैः मौक्तिकसरैः । चः समुच्चये मन्दाकिन्याः गङ्गायाः । " मन्दाकिनी वियद्गङ्गा ' इत्यमरः । तटवनं तटरुहवनं अनु समीपे । अनोः कर्मप्रवचनीयत्वादि । ' अनु त्वनुक्रमे हीने पश्चादर्थसहार्थयोः ! आयामेऽपि समीपार्थे सादृश्ये लक्षणादिषु ' इति विश्वलोचने । क्रीडतां विहरतां दम्पतीनां जायापतीनां । जायाया दम्भावः । पुष्पास्तीर्णाः कुसुमाच्छन्नाः । पुष्पैः कुसुमैः आस्तीर्णाः प्रच्छन्नाः । पुलिनरचिताः सिकतासु निर्मिताः । ' तोयोत्थितं तत् पुलिनं ' इत्यमरः । सम्भोगदेशाः मैथुनोपसेवनप्रदेशाः । संसूच्यन्ते सुष्ठु ज्ञाप्यन्ते । Wherein the abodes of sexual enjoyment of the couples sporting near the forests grown on the banks of the Ganges, constructed on the sandy beaches, scattered over with flowers, are suggested by a large number of fruits assuming lustre red like that of by saffron, by nets of pearls, and by necklaces the strings of which are broken owing to the expanse of the circumjacent regions of their breasts. गत्यायासाद्गलितकबरी बन्धमुक्तैः सभृङ्गैः कीर्णैः पुष्पैः कुसुमधनुषो बाणपातायमानैः । लाक्षारागैश्वरणनिहितैरप्यधिक्षोणि यस्यां नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ९६ ॥ अन्वयः - यस्यां गत्यायासात् गलितकरीबन्धमुक्तेः कीर्णैः सभृङ्गैः कुसुमधनुषः बाणपातायमानैः पुष्पैः अधिक्षोणि चरणनिहितैः लाक्षारागैः अपि कामिनीनां नैशः मार्गः सवितुः उदये सूच्यते । गतीत्यादि । यस्यां यक्षाधिपराजधान्यां गत्यायासात् गमनजातश्रमाद्धेतो' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy