SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २३८ [पार्धाभ्युदय Wherein the drums, beaten in the temples for the purpose of the evening musical performance, causing the peacocks, noisy with their cracklings, to dance, making the swans, giving out notes exciting pity, distressed by their earnest desire for the Manasa ( lake;), make, in all the seasons other than the monsoon, a noise, resembling the deep thundering of clouds, excessively. यत्राकीर्ण विततशिखराः, सानका मन्द्रघोष विद्युद्भासा विरचिततर्नु रत्नदीपानुयाताः । सौधाभोगास्तुलयितुमलं शश्वदोघं घनाना . मन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहानाः ।। ८७ ।। अन्वयः- यत्र आकीर्ण विततशिखराः, मन्द्रघोष सानकाः, विद्युद्भासा विरचिततर्नु रत्नदीपानुयाताः, अन्तस्तोयं मणिमयभुवः, तुझं अभ्रलिहायाः, घनानां ओघं शश्वत् तुलयितुं सौधाभोगाः अलम् । यत्रेत्यादि । यत्र अलकानगयाँ आकाणं प्रावृषि समन्तात् प्रसृतं मेघवृन्दं । आ समन्तात् कीर्ण प्रसृतं आकीर्णम् । विततशिखराः विस्तृताग्रभागाः । विततानि विस्तृतानि शिखराणि अग्रभागाः येषां ते सौधाभोगाः।' विततं तुं मतं व्याप्ते विस्तृतेऽप्यभिधेयवत् ' इति विश्वलोचने। शिखा चूडा वलभी अस्यास्तीति शिखरं । मन्द्रघोषं गम्भीरगर्जितध्वनि । मन्द्रः गम्भीरः बोषः गर्जितध्वनिः यस्य सः मेघोषः। तम् । 'घोषः कांस्येऽम्बुध्वनौ । घोषः स्याद्धोषकाभीरनिस्वनाभीरपलिषु' इति विश्वलोचने । 'मन्द्रस्तु गम्भीरे' इत्यमरः । सानकाः समृदङ्गध्वनयः सौधाभोगाः । 'मन्द्रघोषं' इति घनौघविशेषणदर्शनात्सानकशब्दस्य समृदङ्गध्वनयः इति लाक्षणिकोर्थोत्र ग्राह्यः । 'आनकः पटहे भेो मृदङ्गे ध्वनदम्बुदे' इति विश्वलोचने । विद्युद्भासा विद्युदातपेन। विद्युतः तडितः भाः आतपः विद्युद्भाः। तया । विरचिततनुं अलङ्कृतशरीरं । विरचिता अलङ्कृता तनुः शरीरं यस्य सः। तं घनौघम्। रत्नदीपानुयाताः रत्नरूपदीपानुगताः रत्नमयदीपानुगताः वा । तादृशदीपसहिताः । अन्तरतोयं अन्तर्गतजलं घनौघं । मणिमयभुवः मणिप्रकृतभूमयः । मणिभिः प्राधान्येन कृताः भुवः भूमयः येषां ते सौधाभोगाः । 'प्रकृते मयट्' इति मयट् । तुङ्ग उन्नताकाशप्रदेशस्थितं घनघि अभ्रंलिहायाः अभ्रङ्कवाग्रभागाः सौधाभोगाः । अभ्रं मेघ लिहन्ति कान्ति स्पृशान्ति वेति अभ्रंलिहानि । अभ्रंलिहान्यग्राणि अग्रभागाः येषां ते । 'वहाभ्रे लिहः' इति खश् । खित्त्वात् 'मुमचः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy