SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २३७ coming out of the groves of Pine trees and spreading on all sides, are quite competent to display always the rainy season, looking dark on all sides, pervading the sky, possessing flashes of lightning ( and ). decorated with rain-bows. प्रोच्चैः केकारवमुखरितान्नर्तयन्तो मयूरान् हँसानुद्यत्करुण विरुतान्मान से म्लानयन्तः । Parsaid विदधतितरां देवधिष्ण्येषु सन्ध्या सङ्गीताय प्रहतमुरजाः स्निग्धपर्जन्यघोषम् ॥ ८६ ॥ अन्वयः -- यत्र केकारवमुखरितान् मयूरान् प्रोच्चैः नर्तयन्तः, उद्यत्करुणविरुतान् हंसान मानसे म्लानयन्तः देवधिष्ण्येषु सन्ध्यासङ्गीताय प्रहृतमुरजाः स्निग्धपर्जन्यघोषं अकाले विदधतितराम् । प्रोचैरित्यादि । यत्र यस्यामलकापुर्वी केकारवमुखरितान् केकाध्वनिवाचा - लितान् । 'केका वाणी मयूरस्य ' इत्यमरः । केकाः एव आरवाः ध्वनयः केकारवाः । तैः मुखरितान् मुखरीकृतान् । वाचालितानित्यर्थः । ' मृदो ध्वर्थे णिज्बहुलं ' इति णिच् । णिचि क्तश्च । मयूरान् केकिनः । प्रोचैः अत्यर्थे नर्तयन्तः नाटयन्तः । उद्यत्करुणविरुतान् उच्चरत्करुणारवान् । करुणानि करुणाजनकानि च तानि विरुतानि कूजितानि च करुणविरुतानि । उद्यन्ति करुणविरुतानि येभ्यः ते उद्यत्करुणविरुताः । तान् । हंसान् मरालान् मानसे मानससरोवरार्थे म्लानयन्तः उत्कण्ठाजनितदुःखवतः कुर्वाणाः देवधिष्णषु देवमन्दिरेषु । ' धिष्ण्यं सद्मनि नक्षत्रे स्थाने शक्तौ च न द्वयोः' इति विश्वलोचने । सन्ध्यासङ्गीताय सन्ध्यासमय विधीयमानसङ्गीतार्थे । सन्ध्यासु विधीयमानं सङ्गीतं सन्ध्यासङ्गीतं । तस्मै । तदर्थमित्यर्थः । प्रहतसुरजाः ताडितमृदङ्गाः । प्रहृताः ताडिताश्च ते मुरजाः मृदङ्गाश्च प्रहृतमुरजाः । स्निग्घपर्जन्यघोषं गम्भीरमेघध्वनितुल्यध्वानम् । स्निग्धः गम्भीरः पर्जन्यः मेघध्वनिः स्निग्धपर्जन्यः । ' पर्जन्यो वासवे मैघ-ध्वनौ च ध्वनदम्बुदे ' इति विश्वलोचने । स्निग्धपर्जन्यः इव स्निग्धपर्जन्यः | स्निग्धमेघध्वनितुल्यः इत्यर्थः । ' देवपथादिभ्यः' इतीवार्थस्य कस्योस् । स्निग्धपर्जन्यश्वासौ घोषः ध्वनिश्व । तं । अकाले वर्षाकालाद्भिन्नकाले । तदन्यार्थे नत्र विज्ञेयः । विदधतितरां अतिशयेन कुर्वन्ति । ' द्विविभज्ये तर ः ' इति तदन्तान्मिङः < झ्येन्मिहिझादामद्रव्ये ' इत्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy