________________
२३६
प्रासादाश्च प्रथयितुमलं सर्वदा मेघकालं विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः ॥ ८५ ॥
[ पार्श्वाभ्युदये
अन्वयः - यत्र आनीलं हरिमणिमयाः, नभोगं क्षुद्रशैलाः, विद्युद्वन्तं ललितबनिताः सेन्द्रचापं सचित्राः, प्रोद्यद्देवद्रुमपरिसरद्धूपधूमानुबन्धाः प्रासादाः मेघकालं सर्वदा प्रथयितुं अलम् ।
७
"
यत्रेत्यादि । यत्र अलकानगर्यो आनीलं आ समन्तान्नीलं कृष्णवर्णे । मेघकालमिति शेषः । हरिमणिमयाः प्राधान्येन नीलमणिविरचिताः । प्रासादाः इति शेषः । ' प्रकृते मयट् ' इति मयट् । नभोगं नभसि आकाशे गच्छतीति नभोगः । तम् | आकाशदेशस्थितं मेघकालमित्यर्थः । क्षुद्रशैलाः क्रीडाशैलवन्तः । क्षुद्राः स्वल्पाः शैलाः पर्वताः येषु ते क्षुद्रशैलाः । अत्र ( गङ्गायां घोषः इत्यादाविव प्रासादोपरिभागस्थितिरूपं मुख्यार्थे बाधित्वा तत्समीपभूप्रदेशस्थितिरूपोऽन्योऽर्थो लक्षणया लभ्यो ग्राह्यः, ' मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योर्थो लक्ष्यते यत्सा लक्षणाऽऽरोपिता क्रिया' इति मम्मटवचनात् । विद्युत्वन्तं तडित्वन्तं । अचिरप्रभायुक्तमित्यर्थः । ' मत्वर्थे स्तौ ' इति तकारान्तविद्युदभिधानस्य मत्वर्थे त्ये परतः भसञ्ज्ञत्वात्पदसञ्ज्ञत्वाभावात् ' झलो जश् झशि ' इति झशि परतोऽपि जश् न भवति । सौदामनीयुक्तं मेघकालमित्यर्थः । ललितवनिताः मनोहराङ्गनाः । ललिताः मनोहराः बनिताः ललनाः येषु ते प्रासादाः । सेन्द्रचापं सेन्द्रायुधं । इन्द्रचापेन सहितः सेन्द्रचापः । तं मेघकालम् । ' तेन सहेति तुल्ययोगे ' इति बसः । वा नीचः' इति सहस्य सादेशः । सचित्राः सालेख्याः । ' चित्रं तु कर्बुराद्भुतयस्त्रिषु । चित्रमालेख्यतिलक - व्योमसु स्यान्नपुंसकम् ' इति विश्वलोचने । सह चित्रैः सचित्राः प्रासादाः । प्रोद्यदेवडुम परिसरधूपधूमानुबन्धाः । देवद्रुमाः देवदारुद्रुमाः । तेभ्यः परितः सर्वतः सरन् निर्गच्छन् देवद्रुमपरिसरन् । स चासौ धूपधूमश्च । तस्य अनुबन्धाः आनुपूर्व्यः राजयः वा । प्रोद्यन्तः उद्गच्छन्तः देवद्रुमपरिसरधूपधूमानुबन्धाः येभ्यः ते । प्रासादपरिसरोद्भूतदेवद्रुमाणामत्र ग्रहणं लक्षणया कर्तव्यं प्रासादाग्रे द्रुमोत्पत्त्यसम्भवात् । प्रासादाः हर्म्याणि सर्वदा सर्वकालं प्रथयितुं प्रकटयितुं । अलं सामर्थ्य सम्पन्नाः । भवन्तीति शेषः । ' अलं भूषणपर्याप्तिशक्तिवारणनिष्फले ' इति विश्वलोचने ।
८
Wherein the mansions, constructed by putting emeralds especially, possessing pleasure-mountains in their vicinity, having beautiful women, with multicoloured pictures, having rising volumes of smoke of incense
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org